________________
पविकासमेतः। अथाकाशाम्भोरुहाविभ्य उत्पत्तौ कि बाधकं प्रमाणमित्याह-अभावकारणत्वे स्वित्यादि।
अभावकारणले तु नैरन्तर्येण संभवेत् ।
नाभावोऽपेक्षते किञ्चिनिर्विशेषतया सदा ॥ ४२७ ॥ अभावो नभस्तामरसादि कारणं यस्य तत्तथोक्तम् , तद्भावस्तत्त्वम् , तस्मिन्सति तन्नमस्तामरसादिज्ञानं सर्वदैव भवेत्-उत्पद्येत, नित्यसन्निहिताविकलकारणत्वात् । नचापि तस्य परैरनुपकार्यस्य तदपेक्षा युक्ता, येन सहकारिवैकल्यात्कदाचिजनयेदिति स्यात् ॥ ४२७ ॥ क्षणिकेष्वपीत्यादिना भदन्तयोगसेनमतमाशङ्कते।
क्षणिकेष्वपि भावेषु ननु चार्थक्रिया कथम् । विशेषाधायिनोऽन्योन्यं न ह्याद्याः सहकारिणः ॥ ४२८ ॥ जातौ सर्वात्मना सिद्धरजातावस्त्वभावतः । निर्विशेषाद्विशेषस्य भावे कार्य न किं भवेत् ॥ ४२९॥ नचान्यतो विशिष्टास्ते तुल्यपर्यनुयोगतः। सहकारिकलापानामनवस्था च ते भवेत् ॥ ४३० ॥ क्रमेण युगपचापि यतस्तेऽर्थक्रियाकृतः। न भवन्ति ततस्तेषां व्यर्थः क्षणिकताश्रयः ॥ ४३१ ॥ सहकारिकृतश्चैवं यदा नातिशयः कचित् । सर्वदा निर्विशेषैव तदा सन्ततिरिष्यते ॥ ४३२ ॥ विनाशे यद्यहेतुः स्यादादावेव भवेदयम् । सम्भवो यदि नास्यादावन्तेऽपि स कथं भवेत् ॥ ४३३ ॥ खहेतोयदि भावानामिष्यतेऽन्यन्न कारणम् ।
विनाशस्य कथं तेषां कचिदेव विरुद्धता ॥ ४३४ ॥ माह-क्षणिकत्वेऽपि भावानां क्रमयोगपद्याभ्यामर्थक्रियाविरोध एव । यतस्ते स्वयं समर्था भवेयुरसमर्था वा, यदि समर्थास्तदा सहकारिकारणं नापेक्षेरन् । न हि समर्थस्य काचिदपेक्षा युक्ता । अथासमर्थास्तथाऽपि तेषां तदपेक्षा सुतरामयुक्तिमती । तथाहिये प्रथमकलापान्तश्चरिष्णवखे न परस्परतो विशेषमानुवन्ति । उत्पभानु
२०