________________
तत्त्वसङ्ग्रहः। . अथार्थक्रियासामर्थ्यशून्यस्यापि कस्माद्वस्तुत्वं नेष्यत इत्याह निःशेषेत्यादि ।
निःशेषशक्तिशून्यं तु यद्वन्ध्यासुतसन्निभम् । सर्वज्ञचेतसोऽप्येति हेतुत्वं न कदाचन ॥ ४२२ ॥ क्रियते तत्र नैवेदं कार्यरूपाद्यदृष्टितः। निर्निबन्धनमस्तित्वव्यवस्थानं विचक्षणैः ॥ ४२३ ॥ न तस्मिन्साधितेनार्थः क्षणिकत्वेन कश्चन ।
तत्र पर्यनुयोगश्च क्रियमाणोऽपि निष्फलः ॥ ४२४॥ - सर्वज्ञचेतसोऽपीति । न केवलं समानजातीयस्य क्षणस्य, जलधारणादेश्व कायस्येत्यपिशब्दः । कार्यरूपाद्यदृष्टित इति । कार्यम्-तदीयं फलम् , रूपम्तस्य स्वभावः, आदिशब्देन तस्य देशः कालोऽवस्थाविशेषश्च गृह्यते । तस्य चैवंरूपस्य शशविषाणादिभ्यो न कश्चिद्विशेषोऽस्तीति भावः । नचापि तस्मिंस्तथाभूते वस्तुनि क्षणिकत्वेन साधितेनार्थक्रियार्थिनः किंचित्प्रयोजनमस्ति । तस्य दृष्टादृष्टयोहिताहितप्राप्तिपरिहारायोग्यत्वात् । यथोक्तम्- "अर्थक्रियाऽसमर्थस्य विचारैः किं तदर्थिनां । षण्डस्य रूपवैरूप्ये कामिन्याः किं परीक्षया ॥” इति । अतएव कथमिदं गम्यते तत्क्षणिकमित्यादिपर्यनुयोगः प्रतिवादिना क्रियमाणो विफल एव, तस्य वादिना क्षणिकत्वेन साधयितुमनिष्टत्वात् ॥ ४२२ ॥ ४२३ ॥ ४२४ ॥
इदानीं परोऽयक्रियासामर्थ्यमपि वस्तुलक्षणमयुक्तमतिव्यापित्वादिति दर्शयतिननु चेत्यादि।
ननु चार्थक्रियाशक्ता नभस्तामरसादयः ।
खज्ञानहेतुभावेन न चैते सन्ति भाविकाः ॥४२५ ॥ तथाहि नमस्तामरसादयो नमस्तामरस नभस्तामरसमित्यादिज्ञानोत्पादलक्षणायामर्थक्रियायां समर्थाः, नच ते परमार्थतः सन्ति, अतोऽतिव्यापीदं लक्षणं शक्तिर्भावलक्षणमिति ॥ ४२५ ॥ अत्र परिहारमाह-निरालम्बनमेवेत्यादि ।
निरालम्बनमेवेदमम्बराम्भोरुहादिषु ।
तजल्पवासनामात्रभावि ज्ञानं प्रवर्तते ॥ ४२६ ॥ असिद्धमाकाशाम्भोरुहादीनामर्थक्रियासामर्थ्यम् , तद्विकल्पानां खविकल्पवासनापरिपाकमात्रेणैवोत्पत्तेनिरालम्बनत्वात् ॥ ४२६ ॥