________________
१५१
पत्रिकासमेतः। वस्तुलक्षणम् । भवतु नाम सत्तादेः सिद्धिः। तथाऽपि न सत्तासमवायो लक्षणं युक्तमर्थान्तरत्वात् । न ह्यर्थान्तरमर्थान्तरस्य स्वरूपम् , येन तस्य तल्लक्षणं भवेत् । तथाहि-वस्तुस्वरूपापरिज्ञानान्मूढधियं प्रति तल्लक्षणे प्रकृते तत्स्वभाव एवं कुतश्चि| व्यावृत्त्या प्रतीतो लक्षणत्वेन वाच्यो येन तदेव वस्तुखरूपत्वेनावधारयति, यथा पृथिवी खरकटत्वेन । न चान्यः पदार्थोऽन्यपदार्थस्वरूपमन्यत्वहानिप्रसङ्गात् । तत्कथं तल्लक्षणं भवेत् । लक्षणशब्दस्य स्वभाववचनस्य प्रस्तुतत्वात् ॥ ४१८ ॥
केचिदाहुः-यद्वस्त्वन्तशः सर्वज्ञस्यापि न ज्ञानमुत्पादयति तस्य तादृशस्यास्तितायां किं बाधकं प्रमाणम् , यत इयं व्याप्तिः सर्वोपसंहारेण सिद्ध्येत् , यत्सत्तत्सर्व क्षणिकमिति । नच तदपरिज्ञाने सर्वज्ञत्वहानिस्तस्य शेयेष्वेवाधिकारात् । ज्ञानयोग्यस्य हि वस्तुनोऽपरिज्ञाने स्यादसर्वज्ञः, तत्तु न ज्ञेयम् । ज्ञानोत्पादनेऽपि तस्यायोग्यत्वादिति । तान्प्रत्याह-सर्वश्चेत्यादि।
सर्वश्वार्थविचारादिव्यापारोऽर्थक्रियार्थिनः । निराकुलधियो युक्तो नोन्मत्तकतया पुनः ॥ ४१९॥ तत्र यन्नाम केषाश्चित्कथञ्चिदुपयुज्यते। कचित्कदाचित्तत्रैव युक्ता सत्ताव्यवस्थितिः ॥ ४२० ॥ तद्रूपस्यैव चार्थस्य क्षणिकत्वं प्रसाध्यते।
व्याप्तिः सर्वोपसंहारा तस्मिन्नेवाभिधीयते ॥ ४२१ ॥ अर्थस्य हि वस्तुमात्रस्य योऽयमस्तित्वनास्तित्वेन विचारः स सर्वोऽर्थक्रियार्थिनः, न व्यसनितया । अन्यथा युन्मत्तः स्यात् । तेन यदेव पदार्थजातं केषांचिदर्थक्रियार्थिनां कथंचित्साक्षात्पारम्पर्येण वा कचिद्देशे कदाचित्काल उपयुज्यते तत्रैव वस्तुव्यवस्था युक्ता प्रेक्षावतः। न त्वन्यत्र निबन्धनाभावान्निष्प्रयोजनत्वादिति भावः । आदिग्रहणेनार्थविशेषाणां दहनसलिलादीनां विचारो गृह्यते । ततश्च प्रेक्षापूर्वकारिणां यदेवार्थक्रियाकारि तदेव वस्त्विति यदेतत्प्रसिद्धम् , तस्यैव तद्रूपस्य अर्थक्रियाकारिरूपस्यास्माभिः क्षणिकत्वं प्रसाध्यते । यतोऽयक्रियासामर्थ्यलक्षणस्य हेतुत्वेनाभीष्टत्वान्नास्ति व्यभिचारः। तस्यैवंभूतस्य हेतोः सर्वोपसंहारात्साध्येन व्याप्तिसिद्धेः । या हि पक्षसपक्षविभागमकृत्वा सामान्येन हेतोाप्तिः प्रदर्श्यते सा सर्वोपसंहारा व्याप्तिः॥४१९॥४२०॥४२१॥