________________
१५०
तत्त्वसङ्ग्रहः। श्रक्रिया, तथाऽपि सामर्थ्यमस्यास्त्येवेत्याह-अकिंचित्कररूपस्येत्यादि । कार्योत्पादनिबन्धनं हि भावानां सामर्थ्य व्यवस्थाप्यते । यश्च न किंचित्करोति स कथं समर्थः स्यात् । अन्यथा ह्याकाशकुशेशयादेरपि सामर्थ्य किं न व्यवस्थाप्येत । स्यादेतचदि नाम सामर्थ्यमस्य निवृत्तं तथाऽपि सत्त्वमनिवृत्तमेव । ततश्च सत्त्वादि- ४ त्यनैकान्तिक एव हेतुरित्याह-असन्त इत्यादि । इदमेव हि वस्तुलक्षणं यदर्थक्रियासामर्थ्य तथेनिवृत्तं तत्कथं वस्तुत्वं तल्लक्षणं तेष्ववस्थां लभते । तदेवं क्रमाक्रमाभ्यामर्थक्रियासामर्थ्यशून्यत्वाद्वन्ध्यापुत्रादिवदसद्व्यवहारयोग्या अक्षणिकत्वेनामिमता आकाशादय इति सिद्धम् ॥ ४१५ ॥ ४१६ ॥
__ अथ नाङ्गीक्रियेतेदं वस्तुत्वं शक्तिलक्षणम् । . यदेवमन्यनिर्दिश्यं वस्तूनां लक्षणं परैः ॥ ४१७ ॥
अथापि स्याद्यद्यर्थक्रियासामर्थ्यलक्षणमेव वस्तुलक्षणं भवेत् , तदैतत्सर्व शोभेत । यद्येवं किमन्यद्वस्तुलक्षणमिति वक्तव्यम् । तथाहि-शशविषाणादौ यदवस्तुत्वमिष्टं तत्रार्थक्रियासामर्थ्यविरह एव निबन्धनम् । वस्त्ववस्तुनोश्चान्योन्यव्यवच्छेदरूपत्वात् । सामर्थ्यादवस्तुलक्षणविपरीतमर्थक्रियासामर्थ्यमेव वस्तुलक्षणमवतिष्ठत इति भावः ॥ ४१७॥ अत्र परस्योत्तरमाशङ्कते-सत्तेत्यादि ।
सत्तासम्बन्ध इष्टश्चेद्वस्तूनां लक्षणं न तत् ।
असिद्धेः समवायादेः कथं वाऽन्योऽन्यलक्षणम् ॥ ४१८॥ न गर्थक्रियासामर्थ्य वस्तुलक्षणम् , किं तर्हि ? सत्तासंबन्धः सत्तासमवाय इति यावत् । न तदिति । वस्तुलक्षणं युक्तमिति शेषः । समायादेरसिद्धत्वात् । आदिशब्देन सत्तापरिग्रहः । यदि समवायादिः सिद्धो भवेत्तदा समवायो वस्तुलक्षणं स्यात् । यावता तेषामेव साध्यत्वेन प्रस्तुतत्वात् । वक्ष्यमाणबाधकप्रमाणसद्भावाच । यदि वा पूर्वोक्तादेव बाधकात्प्रमाणात्सत्तायाः समवायस्य चासिद्धिः । केनचित्सह सत्तायाः संबन्धासिद्धेस्तस्यानुपकार्यत्वात् । न ह्यनुपकारिणोः परस्परं संबन्धोऽतिप्रसङ्गादित्युक्तम् । किंच तयोरपि सत्तासमवाययोरन्त्यानां च विशेषाणां वस्तुत्वे किं लक्षणमिति वक्तव्यम् । न हि समवाये विशेषेषु च सत्ता समवैति । नापि सत्तायाम् , किं तर्हि ? द्रव्यगुणकर्मसु त्रिपदार्थसत्करी सत्तेति समयात् । तस्मादन्यापीदं