________________
पजिकासमेतः।
१४९ खभावापरित्यागेनानुवृत्तो भवति । यदि हि सहकारिणा संबद्धं स्वभावं न जहाति, तत्संबद्धस्वभावापरित्यागेन सामर्थ्यात्सहकारिणामप्यपरित्यागः । प्रतियोगिसव्यपेक्षवात्संबन्धित्वस्य । अन्यथा सैव तस्य प्रकृतिर्न भवेत् । अथान्येति पक्षसत्राह। अन्यच्चेत्यादि । यदि हि सहकारिविकलं रूपमस्यान्यदितीष्यते तदा नित्यत्वहानिप्रसङ्गः, रूपस्य भावाव्यतिरेकात् । तस्मात्सहकारिणोऽपेक्षायामपि न स्थिराणां क्रमेणार्थक्रिया युक्ता ।। ४१२ ।। =॥ नापि यौगपद्येनेति दर्शयति-योगपद्यं च नैवेष्टमित्यादि ।
योगपचं च नैवेष्टं तत्कार्याणां क्षयेक्षणात् ॥ ४१३ ॥ परैरपि नित्यपदार्थकार्याणां नैव योगपद्यमिष्टम् । तथाहि-नित्यानामेतानि कार्याणि वर्ण्यन्ते । आत्मनः सुखदुःखादीनि, नभसः शब्दाः, मनसः क्रमवर्तीनि विज्ञानानि, अणूनां व्यणुकादिक्रमेण स्थूलाः, कालदिगीश्वरादीनां सर्वाण्येवोत्पत्तिमन्तीति । एषां च प्रत्यक्षादेव क्रमोदयः प्रसिद्धः ॥ ४१३ ॥
तदेवं यौगपद्याभ्युपगमे प्रत्यक्षविरोधोऽभ्युपगमविरोधश्चोक्तो भवति । इदानीमनुमानविरोधं प्रतिपादयन्नाह-निःशेषाणीत्यादि ।
निःशेषाणि च कार्याणि सकृत्कृत्वा निवर्तते ।
सामर्थ्यात्मा स चेदार्थः सिद्धाऽस्य क्षणभगिता ॥४१४॥ तथाहि-युगपदशेषाणि कार्याणि कृत्वा स किं तस्यार्थक्रियासमर्थः स्वभावो निवर्तते, आहोखिदनुवर्तत इति पक्षद्वयम् । तत्र यदि निवर्तत इति पक्षस्तदा तस्य क्षणभङ्गित्वं सिद्धम् । प्रतिक्षणमपरापरस्वभावोत्पत्तेः पूर्वपूर्वस्य च खभावस्य स्वरसविनाशात् ॥ ४१४ ॥
तद्रूपस्यानुवृत्तौ तु कार्यमुत्पादयेत्पुनः। अकिश्चित्कररूपस्य सामर्थ्य चेष्यते कथम् ॥ ४१५॥ सर्वसामर्थ्यशून्यत्वात्तारापथसरोजवत् ।
असन्तोऽक्षणिकाः सर्वे शक्तिर्यद्वस्तुलक्षणम् ॥ ४१६ ॥ अथ द्वितीयः पक्ष आश्रीयते तदा तद्रूपस्य समर्थात्मनोऽनुवृत्तौ सत्यां पुनः कार्यमुत्पादयेत् , अत्यक्तपूर्वरूपत्वात् , प्रागवस्थावत् । ततश्च स एव क्रमो जात इति यौगपद्याभ्युपगमोऽनुमानविरुद्धः । अथापि स्यान्माभूत्तस्य क्रमयोगपद्याभ्याम