________________
१४८
तत्त्वसङ्ग्रहः। एतच पुद्गलादिपरीक्षायां प्रतिपादितं तदर्शयति-पुद्गलादीत्यादि ।
पुद्गलादिपरीक्षासु द्वैराश्यप्रतिषेधनात् ।
द्विरूपोऽतिशयो नास्ति न वाऽप्यनुभयात्मकः ॥ ४०८॥ - अथैकार्थक्रियाकारित्वेन सहकारिणस्तस्येति द्वितीयः पक्ष आश्रीयते । यथाऽहुरेके नैवासौ सहकारिणोऽपेक्षते, न चापि सहकारिवियुक्तः कार्यस्य कारकः, यत ईदृशस्तस्य निसर्गसिद्धः स्वभावो यत्सन्निहितसकलसहकारिकारण एव कारकोऽन्त्यहेतुवन्न केवलः । तेन तस्य भावेऽपि न कार्यस्य सर्वदोत्पत्तिप्रसङ्ग इति । तदेतदर्शयति-अथेत्यादि ।
अथ नापेक्षते नित्यः प्रत्ययान्सहकारिणः । तथापि तद्वियुक्तोऽयं कारको नान्त्यहेतुवत् ॥ ४०९ ॥ निजस्तस्य खभावोऽयं तेषामेव हि सन्निधौ ।
कारकत्वमतः कार्य तद्भावेऽपि न सर्वदा ॥ ४१०॥ नेति । कारक इत्यनेन संबन्धनीयम् । अन्त्यहेतुवदिति वैधर्म्यदृष्टान्तः । यद्वोत्तरेण कारकत्वमित्यनेन साधर्म्यदृष्टान्ततया संबध्यते । षष्ठयन्ताच्च वतिः कार्यः । तद्भावेऽपीति । तस्य नित्यस्य पदार्थस्य सद्भावेऽपि ॥ ४०९॥ ४१० ॥ अस्त्वेवमित्यादिना प्रतिविधत्ते ।
अस्त्वेवं किन्तु साकल्ये या तस्य प्रकृतिमता।
वैकल्ये सैव चेदिष्टा नित्याः स्युः सहकारिणः ॥४११॥ भवत्येवं कल्पना, किंत्विदमिह निरूप्यते या तस्य सहकारिसाकल्यावस्थायां प्रकृतिः किं सैव वैकल्यावस्थायाम् , आहोस्विदन्या, यदि सैव तदा सहकारिणोऽपि नित्याः प्राप्नुवन्ति ॥ ४११ ॥ कथमित्याह-तत्संबद्धस्वभावस्येत्यादि ।
तत्सम्बद्धखभावस्य भावे तेषामपि स्थितेः।
अन्यचेद्विकलं रूपमेकत्वमवहीयते ॥ ४१२॥ ___ व्यपेक्षयाऽप्यतश्चैवं न कार्याणां क्रमोदयः। '
तैः सहकारिमिः संबद्धः स्वभावो यस्येति विग्रहः । तेषामपीति । सहकारिणाम् । निगडबद्धपुरुषाकर्षणे निगडाकर्षणवत्तेषामप्यनुवृत्तेः। एवं हि स एव पूर्व