________________
पलिकासमेतः।
१४७ अथ तत्राप्यतिशयोत्पत्ती, सहकारिकारणापेक्षणात्क्रमेणातिशयोत्पत्तेर्न कार्याणां योगपद्यं भवतीति स्यात्तदयुक्तम् , एवं ह्यनवस्था स्यात् । तथाहि-तत्रापि सहकारिणामतिशयान्तरकरणात्सहकारित्वं वक्तव्यम् , तस्य चातिशयस्य व्यतिरेकित्वात्सं। बन्धासिद्धिः, तदुत्पत्तौ सकृदुत्पत्तिप्रसङ्गः, तत्रापि सहकारिव्यपेक्षायां पुनरियमेव चिन्ताऽवतरति । ततश्चानवस्थायां न कदाचिदतिशयेन सह तस्य संबन्धः सिद्ध्येत् । तदसिद्धौ न तस्मात्कार्योत्पत्तिरतिशयादेव कार्योत्पत्तेः ॥ ४०३ ॥
सम्बन्धः समवायश्चेत्तत्राप्येवं विचिन्त्यते । उपकारीभवंस्तस्य समवायीष्यते स किम् ॥ ४०४॥ न वा तथेति प्रथमो विकल्पो यदि गृह्यते।
सैव प्राप्ता तदुत्पत्तिळपास्ता साऽप्यनन्तरम् ॥४०५॥ अथापि स्यान्न तदुत्पत्तिलक्षणस्तस्यातिशयेन सह सम्बन्धः । किं तर्हि ? तत्समवायलक्षणः, तत्र नित्ये धर्मिणि तस्यातिशयस्य समवेतत्वात् । तदेतद्युक्तमिति दर्शयन्नाह-तत्रापीत्यादि । न वा तथेति । नोपकारी संस्तस्य समवायीष्यत इति संबन्धः । तत्र प्रथमपक्षे उपकारस्योपक्रियमाणपदार्थाव्यतिरेकात् स एव तदुत्पत्तिलक्षणः संबन्धोऽङ्गीकृतः स्यात् । स चानन्तरमेव निरस्तः ॥ ४०४ ॥४०५॥
अथ द्वितीयः पक्षस्तदा विशेषाभावात्सर्वः सर्वस्य समवायी स्यात् । तदर्शयति-अन्येऽपीयादि ।
अन्येऽपि सर्वभावाः स्युस्तथैव समवायिनः ।
अविशेषान्न तस्यायमुपकारी मतो यदि ॥ ४०६ ॥ तथैवेति । अभिमतपदार्थवदनुपकारित्वेनाविशिष्टत्वात् ॥ ४०६ ॥ उभयानुभयपक्षावधिकृत्याह-भेदाभेदेत्यादि ।
भेदाभेदविकल्पस्य प्रत्येकं प्रतिषेधनात् ।
द्विरूपोऽतिशयस्तस्य व्यस्तो भवति वस्तुनः ॥४०७॥ प्रत्येकपक्षनिराकरणादेवोभयात्मकपक्षस्य निराकरणम् , तद्व्यतिरेकेणोभयात्मकपक्षाभावात् । किंचैकाकारत्यागपरिप्रहयोरपराकारपरिग्रहत्यागानान्तरीयकत्वादयुक्त वस्तुसत उभयानुभयरूपत्वम्, न होकस्यैकदा विधिप्रतिषेधौ परस्परविरुद्धौ युक्तावेकत्वहानिप्रसङ्गात् ॥ ४०७ ॥