________________
तत्त्वसङ्ग्रहः ।
कृतौ वा तत्खरूपस्य नित्यताऽस्याबहीयते । विभिन्नोऽतिशयस्तस्माद्यद्यसौ कारकः कथम् ॥ ३९९ ॥
न हि तस्य नित्यस्य कश्चित्सहकारी संभवति; तथाहि —— अतिशयाधानाद्वा सहकारी भवेत् ; यथा बीजस्य क्षित्यादय उच्छ्रनाद्यवस्थाविशेषमादधानाः सहकारिणः । एकार्थक्रियया वा; यथोन्मिषितमात्रेण रूपदर्शने चक्षुषो रूपादयः । तत्र न तावदाद्यः पक्षः । तथाह्यसावतिशयस्तस्य सहकारिभिराधीयमानः कचित्तत्स्वभावादमिन्नो भिन्नो वा भवेत्, यद्वोभयानुभयरूपः यथाऽऽहुराजीवका इति चत्वारः पक्षाः । तत्र न तावदाद्यः पक्षः, तत्खरूपवत्तद्व्यतिरेकितया तस्यापि सदाऽवस्थितत्वात्सतश्च करणायोगात्करणे वा तद्वदेव भावस्यापि करणप्रसङ्गात् । ततश्च नित्यत्वहानि: । अथ द्वितीयः पक्षस्तदाऽतिशयादेव कार्योत्पत्तेर्भावस्याकारक (त्व) प्रसङ्गः । असाविति । नित्यः पदार्थः ।। ३९७ ।। ३९८ ॥ ३९९ ॥
"
एतदेव स्पष्टयति - तस्मिन्सतीत्यादि ।
१४६
तस्मिन्सति हि कार्याणामुत्पादस्तदभावतः । अनुत्पादात्स एवैवं हेतुत्वेन व्यवस्थितः ॥ ४०० ॥ तस्मिन्निति । अतिशये सतीत्यर्थः । एवमिति । तद्गतान्वयव्यतिरेकानुविधानात् ४०० अथापीत्यादिनाऽत्रैव परस्योत्तरमाशङ्कते ।
अथापि तेन सम्बन्धात्तस्याप्यस्त्येव हेतुता ।
कः सम्बन्धस्तयोरिष्टस्तादात्म्येन विभेदतः ॥ ४०१ ॥ न च तस्य तदुत्पत्तिर्यौगपद्यप्रसङ्गतः ।
ततश्च यौगपद्येन कार्याणामुदयो भवेत् ॥ ४०२ ॥
नेति । अतिशयेन । तस्यापीति । नित्यस्य । कः संबन्ध इत्यादिनोत्तरमाह । कः संबन्धः— नैव कश्चिदित्यर्थः । द्विविध एव हि संबन्धस्तादात्म्यं तदुत्पत्तिश्च । तत्र न तावत्तादात्म्यलक्षणो भेदस्याङ्गीकृतत्वात् । नापि तदुत्पत्तिलक्षणः सहकारिभ्य एव तस्योत्पत्तेः । ततस्तस्योत्पत्तिरङ्गीक्रियते, तदा तन्मात्रभावित्वादतिशयानां युगपदेवोत्पत्तिः स्यात् । ततश्च सर्वकार्याणां युगपदुत्पत्तिप्रसङ्गः । अतिशयवतः कारणस्य सर्वदाऽवस्थितत्वात् ॥ ४०१ ॥ ४०२ ॥
तत्राप्यन्यव्यपेक्षायामनवस्था प्रसज्यते ।
एकदापि ततः कार्य नासम्बन्धात्प्रकल्प्यते ॥ ४०३ ॥