________________
१४५
पलिकासमेतः। क्रियते तदाऽर्थक्रियासामर्थ्यमपि नाङ्गीकर्त्तव्यम् , तत्र क्रमयोगपद्ययोगस्य तद्व्यापकस्याभावात् । नहि व्यापकनिवृत्ती व्याप्यमवस्थातुमुत्सहते । अन्यथा व्याप्यव्यापकभाव एव तयोर्न स्यात् । ततश्वार्थक्रियासामर्थ्य निवृत्तौ सत्वमपि तेषां नाङ्गीकव्यम् , अर्थक्रियासामर्थ्यलक्षणत्वात्सत्वस्येति । अनेनोपायेन तेषामभाव एव प्रतिपायते । न चापि वैधर्म्यदृष्टान्तेऽवश्यं वस्तुभूतो धाश्रयणीयः, तत्र साध्यनिवृत्तौ साधननिवृत्तिमात्रस्य साधयितुमिष्टत्वात् । तञ्च व्याप्यव्यापकभूतयोर्धर्मयोप्प्यव्यापकभावसिद्धौ सत्यां धर्मिविशेषपरिग्रहमन्तरेणैव सामान्येन व्यापकाभावे व्याप्यमपि न भवतीति वचनमात्रादेव प्रतीयते । यथा वृक्षाभावे शिंशपा न भवतीति यथोक्तम्-"तस्माद्वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः । तदभावे(तु) तन्नेति वचनादपि तद्गतेः" ।। इति ॥ ३९२ ॥ ३९३ ॥ ३९४ ॥ न तावस्थिरस्य भावस्य क्रमेणार्थक्रिया युक्तेति दर्शयति-कार्याणीत्यादि ।
कार्याणि हि विलम्बन्ते कारणासन्निधानतः।
समर्थहेतुसद्भावे क्षेपस्तेषां हि किकृतः ॥ ३९५ ॥ नहि कार्यस्य खेच्छया भवनमभवनं वा, किन्तु कारणसदसत्तानुविधायिनी तस्य सदसत्त्वे । तत्र यद्यसौ स्थिरैकरूपो भावः सर्वदा सर्वकार्याणां हेतुभावेनावस्थितस्तदा किमिति तत्सत्तामात्राकानीणि सकृदेव सर्वाणि नोत्पद्यन्ते, येन क्रमेण भवेयुः। क्षेप इति । परिविलम्बः । तेन पाश्चात्यमपि तदीयं कार्य प्रागेव भवेत् । अप्रतिबद्धसामर्थ्यकारणत्वादभिमतकार्यवदिति भावः ॥ ३९५ ॥ अथापीत्यादिना परस्योत्तरमाशङ्कते । - अथापि सन्ति नित्यस्य ऋमिणः सहकारिणः ।
यानपेक्ष्य करोत्येष कार्यग्राम क्रमाश्रयम् ॥ ३९६॥ यद्यपि स्थिरः पदार्थः सर्वदा सन्निहितस्तथापि क्रमेण सहकारीणि तस्य संनिधीयन्ते । अतस्तदपेक्षया क्रमेणासौ कार्याणि जनयिष्यतीति ॥ ३९६ ॥ साध्वित्यादिना प्रतिविधत्ते ।
साध्वेतत्किंतु ते तस्य भवन्ति सहकारिणः। . किं योग्यरूपहेतुत्वादेकार्थकरणेन वा ॥ ३९७ ॥ योग्यरूपस्य हेतुत्वे स भावस्तैः कृतो भवेत्। र स चाशक्यक्रियो यस्मात्तत्वरूपं तदा स्थितम् ॥ ३९८ ॥ १९
Hentuk