________________
१४४
तत्त्वसङ्ग्रहः ।
वियोगे त्वित्यादि । अर्थक्रियासामर्थ्यलक्षणमिह सत्त्वं हेतुत्वेनेष्टम्, तच क्षणिकत्व - निवृत्तौ निवर्त्तते । तथाहि — भावा अर्थक्रियां कुर्वन्तः क्रमेण वा कुर्वीरन्यौगपद्येन वा, न हि क्रमयैौगपद्याभ्यामन्यः प्रकारः संभवति, तयोरन्योन्यव्यवच्छेदरूपत्वात् । एतच्च प्रत्यक्षत एव प्रसिद्धम् । तथाहि — घटो मधूदकादींस्तदन्यद्रव्यव्यतिभिन्नान्क्रमेणाहरन्खज्ञानोदकाहरणे न च यौगपद्येन कुर्वन्प्रत्यक्षेणैव परिच्छिद्यते । तत्र यान्कार्यभेदान्क्रमेणाहरन्समुपलभ्यते घटः, कुलालो वा शरावोदभ्वनादीन्, न तदैव तान्यौगपद्येन जनयितुं समर्थः । घटो वा स्वविषये ज्ञानादीन्यौगपद्येन ' जनयन्नुपलभ्यते, न तदैव तान्क्रमेणेति प्रत्यक्षावसितमेतत्सर्वम् । अतः क्रमस्य यौगपद्यव्यवच्छेदेनैव परिच्छेदाद्यौगपद्यस्य च क्रमव्यवच्छेदेनैवेत्येकप्रमाणवृत्तिर्द्वयोरन्यतरत्परिच्छिन्दती ततः परं प्रतियोगिनं व्यवच्छिनत्ति, प्रकारान्तराभावं च सूचयतीति, प्रत्यक्षप्रमाणावसित एवानयोरन्योन्यवृत्तिपरिहारस्थितलक्षणो विरोधः । तेन तृतीयस्याभावात्क्रमयौगपद्याभ्यामर्थक्रिया व्याप्ता । सा च स्थिरेषु भावेषु स्वव्यापकनिवृत्तौ निवर्त्तमाना तल्लक्षणं सत्त्वं निवर्त्तयतीति सिद्धा व्याप्तिः । न. चैतच्छक्यं वक्तुम्, क्रमयौगपद्ये एव भावानां न सिद्धे व्यतिरिक्तकालपदार्थानभ्युपगमादिति । न हि वयं भावानामर्थान्तरभूतकालपदार्थकृतं क्रमयौगपद्यं ब्रूमः । किं तर्हि ? तथातथोत्पादकृतम् । तथाहि – यदि चैकः सत्तामनुभवति तदैव यदा परे तद्वदेव तामनुभवन्ति, त एवं सर्वे तथोत्पद्यमाना अक्रमव्यपदेशनिबन्धनं भवन्ति । तद्यथा—समग्रसामग्रीका बहवोऽङ्कुराः समुत्पद्यमानाः । विपर्ययात्क्रमव्यपदेश - भाजो यथाऽङ्कुरकाण्डपत्रादयः । एते च प्रत्यक्षत एव सिद्धास्तथैव च व्यपदिश्यन्ते जनैः । तथाभूतपदार्थविषयोऽपि कारणव्यापारस्तद्विषयक्रमयौगपद्याभ्यां व्यपदिश्यत इत्यचोद्यमेतत् । ननु च यदि स्थिरो भावः सिद्धो भवेत्तदा तत्र क्रमयौगपद्यनिवृत्तौ सत्यामर्थक्रियायाः सामर्थ्यनिवृत्तिः सिद्ध्येत् । यथा कचित्प्रदेशे धर्मिणि वृक्षनिवृत्तौ शिंशपानिवृत्तिः । अन्यथा ह्यसिद्धे प्रदेशधर्मिणि कुत्र शिंशपाऽभावः प्रतीयेत । न चासौ सिद्धस्तस्यैव प्रतिषेद्धुमिष्टत्वात् । अथापि सिद्धोऽङ्गीक्रियते, न तर्हितस्य प्रतिक्षेपो युक्तः, तस्य धर्मिणः स्वरूपेण सिद्ध्यभ्युपगमात् । ततश्च सत्त्वादिभ्य(इत्य)यमप्यनैकान्तिक एव हेतु:, विपक्षे वृत्तेरिति । नैतदस्ति । न ह्यस्माभिः स्वातन्त्र्येण प्रमाणतया व्यतिरेकसाधिन्या अस्या व्यापकानुपलब्धेः प्रयोगः क्रियते । किं तर्हि ? प्रसङ्गापादनं परं प्रति क्रियते । यदि भवता तेषां स्थिररूपताऽङ्गी
1