________________
१४३
पत्रिकासमेतः। अपिच-यावत्यर्थे यावानेव वक्तृभिर्विनियुज्यते ध्वनिः स तावानेव तमर्थ सङ्केतवशात्प्रत्याययति न तु परमार्थतः प्रकृतिः प्रत्यययो वाऽस्ति । क्षणिक इति चायं शब्द उत्पादानन्तरास्थायिनि वस्तुमाने नियुक्तो विद्वद्भिः। तत्र चैवम्भूते वस्तुनि क्षणिकशब्देन विवक्षिते क्षणिकः शब्दः सप्रत्ययो वा प्रयुज्यतां प्रत्ययरहितो वेति नात्रास्माकमिच्छामात्रानुरोधिनि साङ्केतिके वचस्यत्यादर इत्येतद्दर्शयतिउदयानन्तरास्थायीत्यादि।
उदयानन्तरास्थायि वस्त्वेवं तु विवक्षितम् ।
तत्र सप्रत्ययः शब्दोऽप्रत्ययो वा प्रयुज्यताम् ॥ ३९०॥ एवमिति । क्षणिकमित्यनेन । सह प्रत्ययेन मत्वर्थीयेन वर्तत इति सप्रत्ययः ।।३९०॥
एवं व्योमादीनामकृतकत्वाभ्युपगमे सति नियमेनासद्व्यवहारविषयतैवेति प्रतिपादितम् , इदानीं सत्त्वाभ्युपगमे तु क्षणिकत्वमेवैषां प्रसज्यत इति साधनयन्नाहयदि त्वित्यादि ।
यदि तु व्योमकालाद्याः सन्तः स्युस्ते तथासति ।
नातिकामन्ति तेऽप्येनं क्षणभङ्गं कृता इव ॥ ३९१ ॥ कृता इवेति । कृतका इवेत्यर्थः । एतेन सत्त्वादित्ययं हेतुः सूचितः ॥ ३९१ ॥ तमेव स्पष्टीकुर्वन्नाह तथाहीत्यादि ।
तथाहि सन्तो ये नाम ते सर्वे क्षणभगिनः । तद्यथासंस्कृता भावास्तथासिद्धा अनन्तरम् ॥ ३९२ ॥ सन्तश्चामी त्वयेष्यन्ते व्योमकालेश्वरादयः। क्षणिकत्ववियोगे तु न सत्तैषां प्रसज्यते ॥ ३९३ ॥ क्रमेण युगपचापि यस्मादर्थक्रिया कृता।
न भवन्ति स्थिरा भावा निःसत्वास्ते ततो मताः ॥३९४॥ प्रयोगः-यत्सत्तत्सर्व क्षणिकम् , यथा समनन्तरं प्रतिपादिताः क्षणिकाः पदार्थाः, सन्तश्च भवता व्योमादयो भावा इष्यन्ते, इति स्वभावहेतुः। तथा सिद्धा इति । क्षणिकत्वेन । एतेन न साध्यविकलता दृष्टान्तस्याशङ्कनीया, प्रसाधितत्वादिति दर्शयति । त्वयेष्यन्त इत्यनेन प्रसङ्गसाधनमेतदिति दर्शयति । अन्यथा हेतोरन्यतरासिद्धता स्यात् । कथं पुनरस्य हेतोर्व्याप्तिः सिद्धेत्याह-क्षणिकत्व