________________
१४२
तत्त्वसङ्ग्रहः।
व्यवहारविषयत्वात् । प्रयोगः यत्सर्वसामर्थ्यशून्यं तदवस्तु, यथा वन्ध्यापुत्रः, सर्वसामर्थ्यशून्यं चाकाशादीति स्वभावहेतुः । वस्तुतो व्यापकानुपलब्धिर्वा । न चानैकान्तिको हेतुः, एतावन्मात्रनिबन्धनत्वादसद्व्यवहारस्य नाप्यसिद्धिरिति पश्चात्प्रतिपादयिष्यामः । सपक्षे भावानापि विरुद्धः ॥ ३८५ ॥ ३८६ ॥
कस्मात्पुनरवस्तुनि क्षणिकाक्षणिकविकल्पो नावतरतीत्याह-क्षणावस्थितरूपं हीत्यादि ।
? क्षणावस्थितरूपं हि वस्तु क्षणिकमुच्यते ।
स्थिररूपसमाकान्तं वस्त्वेवाक्षणिकं पुनः ॥ ३८७ ॥ सुबोधम् ॥ ३८७ ॥ उद्योतकरस्त्वाह-क्षणिक इति मत्वर्थीयानुपपत्तिः, तथाहि-यदि निरुक्तन्यायेन क्षयः क्षणः सोऽस्यास्तीति क्षणिक इति बोध्यते, तन्न युक्तं कालभेदात् , यदा हि क्षयो न तदा क्षयीति मिन्नकालयोर्न मत्वर्थीयो दृष्टः । अथ पुनर्भावानन्तरविनाशेन विशिष्यमाणः क्षण इत्युच्यते । तदाऽपि स तेनैव तद्वान्न भवतीति न युक्तो मत्वर्थीयः । अथ क्षणस्थितिकालाः क्षणिकाः, सर्वान्त्यो हि कालः क्षणस्तं येऽवतिठन्ते ते क्षणिकाः । एतदपि न युक्तम् । संज्ञामात्रेण कालस्याभ्युपगमात्, न च संज्ञामात्रं वस्तुविशेषणत्वेन युक्तमिति । तत्राह-उसादानन्तरास्थायीत्यादि ।
उत्पादानन्तरास्थायि स्वरूपं यच्च वस्तुनः ।
तदुच्यते क्षणः सोऽस्ति यस्य तत्क्षणिकं मतम् ॥ ३८८ ॥ उत्पादानन्तरविनाशिखभावो वस्तुनः क्षण उच्यते, स यस्यास्ति स क्षणिक इति । तथाचोक्तम्-आत्मलाभानन्तरविनाशी क्षणः स यस्यास्ति स क्षणिक इति ॥ ३८८ ॥
नन्वेवमपि स्वभावस्थानान्तरत्वात्सोऽस्यास्तीति व्यतिरेकनिबन्धनः प्रत्ययो नोपपद्यत इत्याह-असत्यपीत्यादि ।
असत्यप्यर्थभेदे च सोऽस्त्यस्येति न बाध्यते।
इच्छारचितसङ्केतमात्रभावि हि वाचकम् ॥ ३८९ ॥ यथा स्वस्य स्वभावः, शिलापुत्रकस्य शरीरम् , इत्यादावसत्यपि वास्तवे भेदे बुद्विपरिकल्पितं भेदमाश्रित्य व्यतिरेकषष्ठीविभक्तिर्भवति तथेहापि भविष्यति, न हि वस्तुखभावानुविधायिन्यो वाचः । किं तर्हि ? वक्तुरिच्छामनुविदधते ॥ ३८९ ॥