________________
पखिकासमेतः।
१४१ विनाशहेतुं प्राप्य विनश्यतीति । तदेतदसम्यक् । न हि स एवान्यथा भवति । ख. भावान्तरोत्पत्तिलक्षणत्वादन्यथात्वस्य । तथाहि-यत्तदन्यथात्वं नाम तत्किं भावादर्थान्तरमाहोखिद्भाव एव, न तावद्भाव एव, तस्य स्खहेतोरेव पूर्व निष्पन्नत्वात् । अथार्थान्तरम् , तथा सति भावोऽच्युतिधर्मा तथैवावस्थित इति न तस्यान्यथाभावः । ताम्रादिदृष्टान्तोऽप्यसिद्ध एव तथाहि-ताम्रादीनां पूर्वकस्य कठिनादिक्षणस्य स्वरसनिरोधित्वाद्विनाशे सत्यग्यादेः सहकारिकारणान्तरात्स्वोपादानकारणाञ्च सामग्र्यन्तराद्रवाख्यमपरमेव स्वभावान्तरमुत्पद्यते । पुनरपि द्रवादिस्वभावस्य स्वरसनिरोघितया विनाशे सति सहकारिकारणान्तरात्स्खोपादानकारणाञ्च काठिन्याख्यमपरमेव स्वभावान्तरमुत्पद्यत इति नैकस्यान्यथात्वमस्ति । तस्मात्सर्वथाऽप्यकिंचित्कर एव नाशहेतुरिति नासिद्धो हेतुः । नचापि विरुद्धः, स्वपक्षे भावात् । नचाप्यनैकान्तिकः, पूर्व प्रसाधितत्वात् । स्यादेतत्-यथाऽऽकाशं मूर्त्तत्वाय न परमपेक्षते अथ च तत्र नियतं न भवति, तद्वद्भावः कृतकोऽपि सन्कश्चिन्नैव नाशे नियतो भविष्यतीति । तदेतदसम्यक् । नहि स कश्चित्कृतकोऽस्ति यः परेणानियो नेष्यते। हेतुमतः सर्वस्यानित्यत्वाभ्युपगमात् । त एव चेह पक्षीकृता नान्य इति कुतोऽऽनैकान्तिकता। ये तु पुनः कृतका अपि सन्तो नित्या एव भविष्यन्तीत्यविनाशितयेति संभाव्यन्ते ते परमार्थतोऽकृतकराश्यन्तर्गता एवेति तन्निराकरणादेव तन्निराक्रिया बोद्धव्येत्यदोषः । नाप्याकाशादेर्मूर्त्तत्वादिधर्म प्रत्यनपेक्षा सिद्धा, यस्य हि यो धर्मो नास्ति स तं प्रति सापेक्ष एव, न हि प्राप्तं धर्म प्रति काचिदपेक्षा भावानां व्यवस्थाप्यते, किं तर्हि ? अप्राप्तमेवेत्यसिद्धो दृष्टान्तः ।। ३८४ ॥ इदानीमकृतकराशिमधिकृत्याह-ये वित्यादि ।
ये तु व्योमादयो भावा अकृतत्वेन संमताः। वस्तुवृत्त्या न सन्त्येव ते च शक्तिवियोगतः ॥ ३८५ ॥ क्षणिकाक्षणिकत्वादिविकल्पस्तेष्वनास्पदः।
तदा वस्त्वेव येन स्यात्क्षणिकं यदिवान्यथा ॥ ३८६ ॥ यदि हि व्योमादयो भावाः सिद्धसत्ताकाः स्युस्तदा तेषु क्षणिकत्वादिधर्मचिन्ताऽवतरेत् , न हि धर्माणां स्वातव्येण सिद्धिरस्ति, अन्यथा हि धर्मत्वमेव तेषां हीयते । न चाकाशादयोऽकृतका धर्मिणस्तेषां सर्वसामर्थ्यविरहित्वेन वन्ध्यापुत्रवदस