________________
तत्त्वसङ्ग्रहः।
अतो व्यवस्थितं रूपं विहितं नास्य किंचन ।
इति नित्यविकल्पोऽस्मिन्क्रियमाणो निरास्पदः ॥ ३८४ ॥ निवृत्तिर्भवतीत्यनेनापि वचनेनास्मिन्प्रध्वंसे विधिरूपेण निवृत्तिरूपता नामिधीयते, यतो नास्य विधेयं किंचिद्रूपमस्ति । किं तर्हि ? वस्तुस्वरूपस्य क्षणादूर्ध्व स्वभावानुवृत्तिनिषिध्यते । तस्मादयमेकान्तेनाभावरूप एवेति नित्यविकल्पोऽनास्पद एव, निःस्वभावत्वादेव सदा व्यवस्थितरूपायोगात् । स्वभावप्रतिबद्धत्वान्नित्यानित्यस्वभावप्रतिबद्धधर्मयोः । यच्चोक्तमकारणं भवतां द्विधा नित्यमसच्चेति तत्परसिद्धान्तानमिज्ञतया, यतो न्यायवादिनां बौद्धानामकारणमसदेव । यथोक्तं भगवता-सधर्मेषु धर्मानुदर्शी विहरन् बोधिसत्त्वोऽणुमपि धर्म न समनुपश्यति यः प्रतीत्य समुत्पादविनिर्मुक्त इति । ये च वैभाषिकाः आकाशादिवस्तु सत्त्वेन कल्पयन्ति ते युष्मत्पक्ष एव निक्षिप्ता न शाक्यपुत्रीया इति न तन्मतोपन्यासो मायान् । एवं नाशहेतूनां सर्वेषामकिञ्चित्करत्वान्नासिद्धता हेतोः । इतश्च नाशहेतूनामकिंचित्करत्वं वक्तव्यम् । तथाहि भावः स्वहेतोरुत्पद्यमानः कदाचित्प्रकृत्या स्वयं नश्वरात्मैवोत्पद्यते, अनश्वरात्मा वा । यदि नश्वरस्तस्य न किञ्चिन्नाशहेतुना, स्वयं तत्स्वभावतयैव नाशात् । यो हि यस्य स्वभावः स खहेतोरेवोत्पद्यमानस्तादृशो भवति न पुनस्तद्भावे हेत्वन्तरमपेक्षते । यथा प्रकाशद्रवोष्णकठिनादयस्तदात्मान उत्पन्ना न पुनः प्रकाशादिभाव हेत्वन्तरमपेक्षन्ते । स्यादेतत्-यथा बीजादयोऽङ्कुरादिजननस्वभावाः सन्तोऽपि न केवला जनयन्ति सलिलादिकारणान्तरापेक्षत्वात् , तद्वद्भावो नश्वरस्वभावोऽपि नाशे कारणान्तरापेक्षो भविष्यतीति । तदेतदसम्यक् । अन्त्यावस्थाप्राप्तस्यैव जनकस्वभावत्वाभ्युपगमात् , नान्यस्य । तेन योऽसौ तत्स्वभावः स जनयत्येव, नासौ परमपेक्षते । यस्तु कुशूलादिस्थो न जनयति नासौ तत्स्वभावः । कारणकारणत्वात्तु तस्यापि कारणव्यपदेशो न मुख्यत इति नास्ति व्यभिचारः । अथानश्वरात्मेति पक्षस्तदापि नाशहेतुरकिंचित्कर एव । तस्य केनचित्स्वभावान्यथाभावस्य कर्तुमशक्यत्वात् । तथाहि । यदि स्वभाव उत्पादानन्तरं न विनश्येत्तदा पश्चादपि स एव तस्य स्थितिधर्मा खभावस्तदवस्थ इति किं नाशहेतुना तस्य कृतम्, येन विनश्येत । अथापि स्यात्-यथा ताम्रादीनां कठिनरूपाणामपि सतामन्यादिसंपर्कादन्यथात्वं भवति । तथा भावस्याविनश्वरखमावस्यापि सतो विनाशहेतुनाऽन्यथात्वं क्रियते । तेन