________________
पञ्जिकासमेतः ।
प्रध्वंसो भवतीत्येव न भावो भवतीत्ययम् ।
अर्थः प्रत्याय्यते त्वत्र न विधिः कस्यचिन्मतः ॥ ३७९ ॥ यद्यपि ध्वंसो विधीयमानतया निर्दिश्यते, तथाऽपि भावनिषेध एव प्रतीयते, न परमार्थतः कस्यचिद्वस्तुरूपस्य विधिः ।। ३७९ ॥
ननु चैत्रस्य पुत्रो भवतीत्यादिवद्भवतिशब्दप्रयोगादत्रापि भवनमेव विधीयत इत्याह- न हीत्यादि ।
न हि बालेय इत्येवन्नाममात्रे कृते कचित् । सर्वो रासभधर्मोऽस्मिन्प्रसक्तिं लभते नरे ॥ ३८० ॥
न हि वस्तूनां शब्दप्रयोगमात्रानुविधायिनी सदसत्त्वे, तस्येच्छामात्रप्रतिबद्धप्रवृत्तित्वात् । अन्यथा हि कचित्पुंसि केनचिदिच्छावशाद्वालेय इति नाम्नि निवेशिते सर्वस्य गर्दभधर्मस्य तत्र प्रसङ्गः स्यात् । बालेयरासभशब्दौ गर्दभपर्यायौ ॥ ३८० ॥ अवश्यं चैतद्विज्ञेयम्, यदुत वस्तुस्वभावनिषेध एव न तु किंचिद्विधीयत इति — ध्वंसनाम्नः पदार्थस्य विधाने पुनरस्य न ।
वस्तुनो जायते किञ्चिदित्येतत्किं निवर्त्तते ॥ ३८१ ॥
अन्यथा ध्वंसाख्यस्य पदार्थान्तरस्य विधाने सति न किंचिद्वस्तुनो जातमिति त - द्वस्तु किमिति निवर्त्तते ॥ ३८१ ॥
यथोक्तमसत्वे सर्वभावानामित्यादि, तत्राह - भावध्वंसात्मनश्चैवमित्यादि । भावध्वंसात्मनश्चैवं नाशस्यासत्त्वमिष्यते । वस्तुरूपवियोगेन न भावाभावरूपतः ॥ ३८२ ॥
एवमिति । वस्तुस्वभाववियोगरूपत्वात्, न तु भावस्वभावस्य सतः स्वरूपनिवृत्तेरसत्त्वम्, तत्कथं सर्वभावानां नित्यत्वं स्यात्, यदि हि स्वभावनिषेधलक्षणो विनाशस्तेषामसन् स्यात्तदा नित्यत्वमेषां स्यात् । यावता स्वभावनिषेधलक्षणो नाशः स्वयमसद्रूपस्तेषामस्त्येवेति कथं नित्या भवेयुः । सर्वसंस्कारनाशित्वप्रत्ययस्य तु निमित्तममिहितमेव ॥ ३८२ ॥
यथोक्तं नित्यत्वेऽपि सहस्थानमित्यादि, तत्राह — निवृत्तिरूपतेत्यादि । निवृत्तिरूपताऽप्यस्मिन्विधिना नाभिधीयते । बस्तुरूपानुवृत्तिश्च क्षणादूर्ध्वं निषिध्यते ॥ ३८३ ॥
१३९