________________
१३८
तत्त्वसङ्ग्रहः ।
यद्येवं कथमहेतुको विनाशो भवतां प्रतीत इत्याह- पराभावात्त्वहेतुकमिति । परस्म स्वकारणव्यतिरिक्तस्योत्तरकालं मुद्गरादेर्नाशकस्याभावादहेतुकमिच्छाम इति प्रकृतेन संबन्धः ॥ ३७५ ॥
अत्र चैवंभूते विनाशे धर्मिणि कादाचित्कत्वात्प्रागभूत्वाऽऽत्मलाभादितीमी हेतू सिद्धौ । वस्त्वनन्तरभावित्वमपि यदि सामान्येन विवक्षितं तदा सिद्धमेव, कारणभूतवस्त्वनन्तरमस्य भावप्रसिद्धेः । अथात्मभूतविनश्वरवस्त्वनन्तरभावित्वमस्य विवक्षितं तदा हेतुरसिद्ध इति दर्शयति — वस्त्वनन्तरभावित्वमित्यादि । वस्त्वनन्तरभावित्वं न तत्र त्वस्ति तादृशि । चलभावस्वरूपस्य भावेनैव सहोदयात् ॥ ३७६ ।।
तादृशीति चलवस्तुस्वभावाव्यतिरेकिणि । न हि निरंशवस्तुनो भागोऽस्ति येन तदनन्तरभावित्वमस्य भवेत् । तत्स्वभाववत्तदव्यतिरेकिणो नाशस्य तन्निष्पत्तावेव निष्पन्नत्वात् । अन्यथा तत्स्वभावत्वमेव तस्य न स्यादित्युक्तम् ॥ ३७६ ॥
यञ्चोक्तं “सर्वसंस्कारनाशित्वप्रत्ययश्वानिमित्तक" इति, तदप्यत एवं प्रतिक्षिप्तमिति दर्शयति - अत इति ।
अतो विनाशसद्भावान्न नित्याः सर्वसंस्कृताः ।
न विनाशीतिबुद्धिश्व निर्निमित्ता प्रसज्यते ॥ ३७७ ॥ यत एव हि क्षणस्थितिधर्माण: पदार्थास्तथाऽध्यवसीयमानतनवस्तस्या बुद्धेर्निमिचमतो नानिमित्तत्वप्रसङ्गः ॥ ३७७ ॥
अथ प्रध्वंस लक्षणो विनाशो धर्म्यभिप्रेतस्तदा त्रयोऽपि हेतवोऽसिद्धा इति दर्शयति — प्रध्वंसस्येत्यादि ।
प्रध्वंसस्य तु नैरात्म्यान्नास्त्यनन्तरभाविता । नाभूत्वाभावयोगस्य गगनेन्दीवरादिवत् ॥ ३७८ ॥
वस्तुन्येव ह्यनन्तरभावित्वादयो धर्माः समाश्रिता नावस्तुनि यथा शशविषाणादौ, प्रध्वंसश्च निरात्मा—निःस्वभावः, तत्कथमस्यानन्तरभावित्वादयः संभवेयुः । नाभूत्वा भावयोगश्चेति । चकारात्कादाचित्कत्वपरिग्रहः ॥ ३७८ ॥
यद्येवम् — यदि ध्वंसस्यानन्तरभावित्वं नास्ति, तदा भावस्य ध्वंसो भवतीति ( कथम् ) । न हि यो न भवत्येव तस्य भवतीति स्यादित्याशङ्कयाह - प्रध्वंस इत्यादि ।