________________
१३७
पलिकासमेतः। असत्त्वे सर्वभावानां नित्यत्वं स्यादनाशतः। सर्वसंस्कारनाशिवप्रत्ययश्चानिमित्तकः ॥ ३७१॥ नित्यत्वेऽपि सह स्थानं विनाशेनाविरोधतः ।
अजातस्य च नाशोक्तिनँव युक्त्यनुपातिनी ॥ ३७२ ॥ स ह्येवमाह-विनाशस्य हेतुर्नास्तीति ब्रुवाणः पर्यनुयोज्यः । किमकारणत्वाद्विनाशो नास्ति व्योमोत्पलादिवत्, अथाकारणत्वान्नित्यो व्योमादिवदिति । भवतां हि पक्षे अकारणं द्विधा दृष्टं नित्यमसञ्च, न हि सत्त्वासत्त्वव्यतिरेकेण प्रकारान्तरमस्ति । तत्र यद्यकारणत्वादसत् विनाशः, तदा सर्वभावानां नित्यत्वप्रसङ्गः, विनाशाभावात् । किंच सर्वसंस्कारा विनश्यन्तीत्येष प्रत्ययो निनिमित्तः प्राप्नोति, न ह्यसत्यां गतौ गच्छतीति भवति । अथ नित्यः, तदा भावस्य विनाशेन सहावस्थानं प्राप्नोति, सर्वदाऽवस्थानात् । न चैतद्युक्तं भावाभावयोः परस्परपरिहारस्थितलक्षणत्वात् । अथ सहावस्थानं नेष्यते, तदा कार्यस्योत्पादो न प्राप्नोति, तत्प्रत्यनीकभूतस्य नाशस्य सदाऽवस्थितत्वात् । ततश्चाजातस्य विनाशोऽपि न संगच्छते, न ह्यजाताः । शशविषाणादयो विनश्यन्तीति लोके प्रतीतम् , तेनाजातस्य विनाश इति वचनं नैव युक्त्यनुपाति ॥ ३७० ॥ ३७१ ॥ ३७२॥ तदत्रेत्यादिना सर्व प्रतिविधत्ते
तदत्र कतमं नाशं परे पर्यनुयुञ्जते । कि क्षणस्थितिधर्माणं भावमेव तथोदितम् । अथ भावखरूपस्य निवृत्तिं ध्वंससंज्ञिताम् ।
पूर्वपर्युनुयोगे हि नैव किञ्चिद्विरुध्यते ॥ ३७४ ॥ द्विविधो हि विनाशो विधेः प्रतिषेधलक्षणः । तथाहि क्षणस्थितिधर्मा भाव एव चलो विनश्यतीति कृत्वा विनाश इत्याख्यायते । यद्वा भावस्वभावप्रच्युतिलक्षणप्रध्वंसापरनामा विनशनं विनाश इति । तत्र पूर्वस्मिन्नाशे यद्ययं हेतुमत्वसाधनपर्यनुयोगः क्रियते यथोर्हेितुमिः, तदा सिद्धसाध्यता ॥ ३७३ ॥ ३७४ ॥ तामेव सिद्धसाध्यतां यो हीत्यादिना दर्शयति
यो हि भावः क्षणस्थायी विनाश इति गीयते । तं हेतुमन्तमिच्छामः पराभावात्त्वहेतुकम् ॥ ३७५ ॥
१८