________________
१३६
तत्त्वसङ्ग्रहः। अथ क्रियानिषेधोऽयं भावं नैव करोति हि।
तथाप्यहेतुता सिद्धा कर्तुतुवहानितः॥ ३६६ ॥ तथाहि-प्रसज्यप्रतिषेधे सति नत्रः करोतिना संबन्धादभावं करोति भावं न करोतीति क्रियाप्रतिषेधादकर्तृत्वं नाशहेतोः प्रतिपादितं भवेत् , यश्चाकर्ता स कथं हेतुः स्यादित्यतो न विनाशहेतुः कश्चित् ।। ३६६ ॥
अत्राविद्धकर्णोक्तानि विनाशस्य हेतुमत्वसाधने प्रमाणानि निर्दिदिक्षुराह-नन्वित्यादि।
ननु नैव विनाशोऽयं सत्ताकालेऽस्ति वस्तुनः । न पूर्व न चिरात्पश्चाद्वस्तुनोऽनन्तरं त्वसौ ॥ ३६७ ॥ एवं च हेतुमानेष युक्तो नियतकालतः।
कादाचित्कवयोगो हि निरपेक्षे निराकृतः ॥ ३६८॥ तथाहि न वस्तुनः सत्ताकाले विनाशः क्षणमात्रावस्थायिनोऽप्यभावप्रसङ्गात् , नाप्युत्पादात्पूर्वम् , अजातस्य विनाशायोगात्, न हि वन्ध्यापुत्रादयोऽनुत्पन्ना एव विनश्यन्ति, पश्चादपि भवन्नचिराद्भवति, तृतीयादिपु क्षणेषु विनष्टस्य पुनर्विनाशायोगात् , भस्मीकृतज्वलनवत्, किन्तु वस्त्वनन्तरं द्वितीये क्षणे विनाशः । ततश्च नियतकालत्वाद्धेतुमान्विनाशोऽङ्कुरादिवदिति सिद्धम् । नियतकालत इति । कादाचित्कवादित्यर्थः । व्याप्तिमस्य साधयन्नाह-कादाचित्कत्वयोगो हीत्यादि । न ह्यनपेक्षे कादाचित्कत्वं युक्तम् , नित्यं सत्त्वादिप्रसङ्गात् । तस्मात्कादाचित्कत्वात्सिद्धमस्य सहेतुत्वम् ॥ ३६८ ॥ इतोऽपि सिद्धमिति दर्शयति-वस्त्वनन्तरभावाच्चेत्यादि ।
वस्त्वनन्तरभावाच हेतुमानेव युज्यते ।
अभूत्वाभावतश्चापि यथैवान्यः क्षणो मतः॥ ३६९ ॥ तदेवमेते त्रयो हेतव उक्ताः । सहेतुको विनाशः, कादाचित्कत्वात् , वस्तूत्पत्त्यनन्तरभावित्वेन बौद्धैरभ्युपगम्यमानत्वात् , प्रागभूत्वाऽऽत्मलाभाच; क्षणान्तरवत् । वैधर्येण शशविषाणादय इति ॥ ३६९ ॥ उद्योतकरोतामपि युक्तिमाह-अहेतुकत्वादित्यादि ।
अहेतुकवाकिंचायमसन्वन्ध्यासुतादिवत् । .., अथवाऽऽकाशवन्नित्यो न प्रकारान्तरं यतः ॥ ३७० ॥