________________
पविकासमेतः।
१३५
नाशयति मुद्रादिवदित्यत्रापि तुल्या एव विकल्पाः पुनरावर्तन्ते । तत्र चोक्तो दोषः, वक्ष्यते च तत्रापीति । योऽसौ नाशनाम्नाऽपरो नाशः क्रियते तत्रापि । अर्थानुवृत्तित इति । अन्यत्वादिविकल्पानामनुवृत्तेरित्यर्थः । एवं तावद्वस्तुभूतो न कि। यत इति प्रतिपादितम् ॥ ३६२ ॥ नाप्यवस्तुभूत इति दर्शयन्नाह-भावाभावात्मक इत्यादि ।
भावाभावात्मको नाशः प्रध्वंसापरसंज्ञकः । क्रियते चेन्न तस्यापि करणं युक्तिसंगतम् ॥ ३६३ ॥ अभावस्य च कार्यत्वे वस्तुतैवाङ्कुरादिवत् ।
प्रसक्ताजन्यरूपस्य हेतुशत्त्या समुद्भवात् ॥ ३६४ ॥ भावस्य हि करणं भवति नाभावस्य, निमित्तीकर्त्तव्यसकलस्वभावविरहलक्षणत्वान्न किंचिदुत्पाद्यं रूपमस्ति । अतो भावाभावात्मक:-भावनिषेधात्मको नाशो न केनचित्क्रियते, अवस्तुत्वात् , खरविषाणवत् । अन्यथा हि कार्यत्वादकुरादिवद्वस्तुत्वमेव स्यात् । प्रयोगः-यत्कार्य तद्वस्तु यथाऽङ्कुरादयः, कार्यश्च नाश इति स्वभावहेतुः । व्याप्तिमस्य साधयन्नाह हेतुशक्त्या समुद्भवादिति । तदेव हि कार्यमुच्यते । यकारणशक्त्या विशिष्टमात्मातिशयमासादयति । समासादितात्मातिशयमेव च वस्तु । अत्र चार्थे नैयायिकादेरप्यविवादः । तथाहि-सत्तासमवायः स्वकारणसमवायो वा कार्यत्वमुच्यते । न च नाशे सत्तासमवायः स्वकारणसमवायो वा, तस्य द्रव्यादिवदस्तित्वाश्रयत्वप्रसङ्गात् ॥ ३६३ ॥ ३६४ ॥ यद्येवं भवतु वस्तुत्वं नाशस्य तत्र को दोष इत्याह-विधिनैवमित्यादि ।
विधिनैवमभावश्च पर्युदासाश्रयात्कृतः।
यस्तत्र व्यतिरेकादिविकल्पो वर्त्तते पुनः ॥ ३६५ ॥ कथं पुनरभावस्य विधिना करणमित्याकाङ्क्षायामिदमुक्तम्-पर्युदासाश्रयादिति । पर्युदासस्याश्रयणादित्यर्थः । विवक्षावशाद्धि कुतश्चन भावाद्विलक्षणो भाव एवाभाव इत्याख्यायते, तत्र च व्यतिरेकादिविकल्पे प्राक्तनो दोषः पुनरावर्त्तते ॥ ३६५ ॥
अथैतदोषभयान पर्युदासात्मकोऽभावो विनाशहेतुमिः क्रियते, किं तर्हि ? प्रसज्य(प्रतिषेधा)त्मक इत्यङ्गीक्रियते । तत्रापि विनाशहेतोः स्फुटतरमेवाकिंचित्करत्वं प्रतिपादितमिति दर्शयमाह-अथेत्यादि ।