________________
१३४
तत्त्वसङ्ग्रहः ।
न चानंशे समुद्भूतं भवात्मन्यात्महेतुतः।
तदात्मैव विनाशोऽन्यैराधातुं पार्यते पुनः ॥ ३५९ ॥ न होकस्य स्वभावद्वयमस्ति, येनांशेन निष्पत्तिः स्यात् , किं तु निरंश एव भावः स च स्वहेतोरुत्पद्यमानः सर्वात्मनैवोत्पन्न इति कथं तस्योत्तरकालं कारणान्तरैः स्वभावान्तरमाधीयेत । न हि यन्निष्पत्तौ यो न निष्पन्नः स तस्य स्वभावो युक्तः, ए. कयोगक्षेमलक्षणत्वादभेदस्य, तस्माद्योऽसावुत्तरकालमुत्पद्यते नाशात्मा भावः सोऽपरः स्वभावः, यश्चापरः स कथं तस्य भवेदिति यत्किंचिदेतत् ॥ ३५९ ॥
अथार्थान्तरभूत इति पक्षस्तत्राप्यकिंचित्कर एव विनाशहेतुर्भावस्येति दर्शयति -पदार्थव्यतिरिक्त इत्यादि ।
पदार्थव्यतिरिक्ते तु नाशनानि कृते सति । भावे हेत्वन्तरैस्तस्य न किञ्चिदुपजायते ॥ ३६० ॥ तेनोपलम्भकार्यादि प्राग्वदेवानुषज्यते ।
तादवस्थ्याच नैवास्य युक्तमाचरणादपि ॥ ३६१ ॥ १ न ह्यन्यस्य करणेऽन्यदुपकृतं नाम, अतिप्रसङ्गात् । नापि तत्संबन्धिनो नाशस्य करणाद्भाव उपकृतो भवतीति युक्तं वक्तुम् , संबन्धासिद्धेः । तथाहि-भेदाभ्युपगमान्न तादात्म्यलक्षणः संबन्धः, नापि तदुत्पत्तिलक्षणः, विनाशहेतोरेव तदुत्पत्तेः, नचान्यो वास्तवः संबन्धोऽस्ति । सत्यपि वा संबन्धे भावस्यावस्थितत्वात्तथैवोपलम्भादिकार्यप्रसङ्गः। उपलम्भ एव कार्यम् । आदिशब्देन जलसंधारणजङ्घाभङ्गादिपरिप्रहः । तेन व्यतिरिक्तेन नाशेनावृतत्वात्प्रतिबद्धत्वाद्वा नोपलम्भादिकार्य करोतीति चेदाह-तादवस्थ्यादित्यादि । न हि भावस्य स्वभावातिशयमखण्डयन्ननुत्पादयन्वा तस्याऽऽवारकः प्रतिबन्धको वा युक्तोऽतिप्रसङ्गात् । तस्मा(द)त्यक्तानावृताप्रतिबद्धपूर्वस्वभावत्वात्तस्यावरणं प्रतिबन्धश्च न युज्यते ॥ ३६० ॥ ३६१ ॥
स्यादेतन्न प्राग्वदुपलब्ध्यादिप्रसङ्गः, तेन व्यतिरिक्तेन नाशेन भावस्य विनाश्यमानत्वादित्याह-नाशनाम्नेत्यादि ।
नाशनाना पदार्थेन भावो नाश्यत इत्यसत्।
अन्यत्वादिविकल्पानां तत्राप्यर्थानुवृत्तितः ॥ ३६२ ॥ नाशो हि भावं नाशयन्किमन्यमनन्यं वा, यद्वा प्रध्वंसलक्षणं नाशं कुर्वाणो