________________
पलिकासमेतः। अनपेक्षोऽपि यथेष देशकालान्तरे भवेत् ।
तदपेक्षतया नैष निरपेक्षः प्रसज्यते ॥ ३५६ ।। एष इति । विनाशः । तदपेक्षतयेति । देशकालान्तरापेक्षतया । यो हि यत्रान• पेक्षः स यदि कचिद्भवेत् , कदाचिद्वा, तदा तद्देशकालापेक्षत्वादनपेक्ष एव न स्यादिति कुतो व्यभिचारः । तथा हि-एकदेशकालापरिहारेणान्यत्र देशकालादौ वर्तमानः कथमनपेक्षो नाम, यतस्तथावृत्तिरेव तस्यापेक्षा, न तु समीहा, तस्यामिप्रायशून्यत्वात् ॥ ३५६ ॥
यदि तर्हि सर्वथा निरपेक्षत्वादिति हेत्वर्थोऽभिप्रेतः, न तर्हि हेतुः सिद्धः । तथाहि -केचिद्विनाशं प्रति मुद्गरादिकमपेक्षमाणा दृश्यन्ते । यथा घटादयः । येऽपि बुद्विशब्दादयोऽनपेक्षत्वेन प्रसिद्धास्तेऽपि यदि नाम मुद्रादिकं नापेक्षन्ते तथाऽपि देशकालावपेक्षन्त इत्यतोऽसिद्धता हेतोरित्याशक्य परिहरन्नाह सर्वत्रैवेत्यादि ।
सर्वत्रैवानपेक्षाश्च विनाशे जन्मिनोऽखिलाः।
सर्वथा नाशहेतूनां तत्राकिश्चित्करस्वतः ॥ ३५७ ॥ सर्वत्रैवेति । सर्वस्मिन्देशकालादिके विनाशहेतौ निरपेक्षा जन्मिन इत्यर्थः । ना. शहेतुत्वेनाभ्युपेतानामकिंचित्करत्वादनुपकारित्वात् , न चानुपकार्यपेक्षो युक्तोऽतिप्रसनात् ॥ ३५७ ॥ कथमकिंचित्करत्वमित्याह-तथाहीत्यादि ।
तथाहि नाशको हेतुर्न भावाव्यतिरेकिणः ।
नाशस्य कारको युक्तः खहेतो वजन्मतः ॥ ३५८ ॥ विनाशो हि क्रियमाणः कदाचिद्वस्तु वा स्यादवस्तु वा, तत्र यदि वस्तु, तदाऽसौ विनाशहेतुना ततो विनाशहेतो वादनान्तरभूतो वा क्रियेत, अर्थान्तरभूतो वा । वस्तुसतो विकल्पद्वयानतिवृत्तेरुभयानुभयपक्षस्त्वयुक्त एव । वस्तुन्येकाकारत्यागपरिप्रहयोस्तदपराकारपरिप्रहत्यागनान्तरीयकत्वात् । एकस्य विधिप्रतिषेधो(भया) योगादित्युक्तम् । तत्र न तावदनान्तरभूत इति पक्षः, भावस्वभावस्य खहेतोरेव जन्मत उत्पत्तेः । तस्यापि भाववत्तव्यतिरेकिणो निष्पन्नत्वात् । न च निष्पन्नस्य कारणं युक्तम् , करणाविरामप्रसङ्गात् ॥ ३५८ ॥
स्यादेतन्नासौ भावः स्वहेतोः सर्वात्मना निष्पन्नोऽतः कारणान्तरतो नाशास्यं खभावान्तरं लभत इत्याहन चानंश इत्यादि ।