________________
१३२
तत्त्वसङ्ग्रहः । कथमसौ प्रसाध्यत इत्याह-कृतकाकृतकत्वेनेत्यादि ।
कृतकाकृतकत्वेन द्वैराश्यं कैश्विदिष्यते।
क्षणिकाक्षणिकत्वेन भावानामपरैर्मतम् ॥ ३५२ ॥ इह हि नैयायिकादयः क्षणिकमेकमपि वस्तु नास्तीति मन्यमानाः कृतकाकृतकत्वेन भावानां द्वैराश्यमवस्थापयन्ति । तत्र केचित्कृतका यथा घटादयः, केचिदकृतका यथा परमाण्वाकाशादयः । अपरैस्तु वात्सीपुत्रीयादिमिः क्षणिकाक्षणिकत्वेनापि भावानां द्वैराश्यमिष्यते । तथाहि-बुद्धिशब्दार्चिःप्रभृतयस्तन्मतेन क्षणिकाः, क्षितिव्योमादयस्त्वक्षणिका इति ॥ ३५२ ॥ ___ तदेवं दर्शनविभागेऽवस्थिते ये कृतकत्वेनाभीष्टास्तांस्तावत्पक्षीकृत्य प्रमाणमभिधीयत इति दर्शयन्नाह-तत्रेत्यादि ।
तत्र ये कृतका भावास्ते सर्वेक्षणभगिनः।
विनाशं प्रति सर्वेषामनपेक्षतया स्थितेः ॥ ३५३ ॥ विनाशं प्रति सर्वेषां हेत्वन्तरानपेक्षतया स्थितत्वादित्यनेन हि विलक्षणो हेतुः सूचितस्तमेव स्पष्टयन्नाह—यद्भावं प्रतीत्यादि ।
यद्रावं प्रति यनैव हेत्वन्तरमपेक्षते। तत्तत्र नियतं ज्ञेयं खहेतुभ्यस्तथोदयात् ॥ ३५४ ॥ निर्निबन्धा हि सामग्री खकार्योत्पादने यथा ।
विनाशं प्रति सर्वेऽपि निरपेक्षाश्च जन्मिनः ॥ ३५५ ॥ प्रयोग:-ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः। यथा समनन्तरफला सामग्री खकार्योत्पादने नियता । विनाशं प्रत्यनपेक्षाश्च सर्वे जन्मिनः कृतका भावा इति खभावहेतुः । हेत्वन्तरमिति । जनकाद्व्यतिरिक्तम् । नियतमित्यत्र कारणमाहस्वहेतुभ्य इति । तथा तेन नियतेन रूपेणोत्पन्नत्वादित्यर्थः । ये तु पुनर्यत्र न नियतास्ते तत्रानपेक्षा अपि न भवन्त्येव, यथा घटादयोऽपक्काः पाकादिष्वितीदमत्र वैधम्र्येणोदाहरणम् ॥ ३५३ ॥ ३५४ ॥ ३५५ ॥
ननु चानैकान्तिको हेतुस्तथाहि-यदि नाम विनाशं प्रति हेत्वन्तरानपेक्षा भावास्तथाऽपि स्थित्वा देशान्तरे कालान्तरे च भावस्य विनाशसंभवादुदयानन्तरापवगित्वमभीष्टमेषां साधयितुं न सिध्यतीत्याह-अनपेक्षोऽपीत्यादि ।