________________
पलिकासमेतः। पश्यामीति । तेनाप्यदर्शने वामप्रहणमनर्थकम् , न पश्यामीत्येव वाच्यं स्यात् । तथेहापि न रूपमाला यावन्नहि विज्ञानमात्मेत्युक्त तद्विलक्षणोऽस्त्यात्मेति सूचितं भवति । स चावाच्योऽन्यो वा भवतु सर्वथाऽस्त्यात्मेति । अत्राह-विशेषप्रतिषेधश्चेत्यादि । एतदुक्तं भवति । विंशतिशिखरसमुद्गतोऽयं सत्कायदृष्टिशैलः कुमतीनां प्रवर्तते । यदुत रूपमात्मा, यावद्विज्ञानमात्मा, रूपवानात्मा, यावद्विज्ञानवानात्मा, आत्मनि रूपं यावद्विज्ञानमात्मनीति । तत्राद्यदृष्टिपञ्चकप्रतिषेधाय तदृष्टिकान्प्रति विशेषरूपेण प्रतिषेधः शोभते । सारूपमात्मेत्यादिका दृष्टिर्येषां ते तदृष्टिकाः । यदेव हि मूढमतेराशङ्कास्थानं तदेवानूध निवर्त्यते । न त्वत्र कस्यचिद्विधिरमिप्रेतः । अन्यथा ह्यश्रोतृसंस्कारकं वाक्यं ब्रुवाणोऽप्रेक्षावानेव प्रतिपादकः स्यादिति ॥ ३४९ ॥
इति वात्सीपुत्रीयात्मपरीक्षा। चलमित्येतद्विशेषणसमर्थनार्थमाह-अथवेत्यादि ।
अथवाऽस्थान एवायमायासः क्रियते यतः। क्षणभङ्गप्रसिद्ध्यैव प्रकृत्यादि निराकृतम् ॥ ३५० ॥ उक्तस्य वक्ष्यमाणस्य जात्यादेश्चाविशेषतः।
निषेधाय ततः स्पष्टं क्षणभङ्गः प्रसाध्यते ॥ ३५१॥ निरवशेषपदार्थव्यापिनः क्षणभङ्गस्य प्रसाधनादेव प्रकृतीश्वरादेः परपरिकल्पितस्य सकलपदार्थराशेरेकप्रहारेणैव निरस्यमानस्यापि सतो यदिदमस्माकमतिग्रन्थविस्तरसंदर्भण प्रतिपदमुच्चार्य दूषणोपक्रमणं तत्केवलमायासफलमेव, खल्पोपायेनैव तस्य दूषितत्वादिति भावः । तथा हि-सर्वमेव प्रकृत्यादि परैरुदयानन्तरापवर्गि निरन्वयनिरोधधर्मकं वा कैश्चिन्नेष्यते । ततश्चैतत्समस्तवस्तुव्यापकक्षणभङ्गप्रसाधनेनैव निरस्त भवतीति मन्यमानैरस्माभिरुक्तस्य प्रकृत्यादेः पुद्गलपर्यन्तस्य वक्ष्यमाणस्य च जातिगुणद्रव्यादेः शब्दार्थयोः प्रमाणप्रमेययोर्मेचकादिमणिप्रख्यचित्रस्य वस्तुननिकालानुयायिनो भावस्य चार्वाकाद्युपगतस्य च भूतचतुष्टयस्य जैमिनीयेष्टस्य च वैदिकशब्दराशेर्निरासाय विशेषेण क्षणभङ्गः प्रसाध्यते । स्पष्टमिति । तत्साधकस्य हेतोखिरूपस्य प्रदर्शनात् । अतोऽस्यामेव स्थिरभावपरीक्षायां सकलशास्त्रार्थपरिसमाप्तिर्भवतीत्युक्तं भवति ॥ ३५० ॥ ३५१ ॥