________________
१३०
तत्त्वसहाहः।
यत्तहीदमुक्तम्-'भारं वो मिक्षवो देशयिष्यामि भारादानं भारनिक्षेपं भारहारं च । तत्र भारः पञ्चोपादानस्कन्धाः, भारादानं तृप्तिः, भारनिक्षेपो मोक्षः, भारहारः पुद्गला इति, तदेतत्कथं नीयते, न हि भार एव भारहारो युक्त इत्याहसमुदायादीत्यादि।
समुदायादिचित्तेन भारहारादिदेशना। विशेषप्रतिषेधश्च तदृष्टीन्प्रति राजते ॥ ३४९ ॥
इति वात्सीपुत्रीयपरिकल्पितात्मपरीक्षा। तत्र समानकालाः स्कन्धा एव सामस्त्येन विवक्षिताः समुदायव्यपदेशभाजः, त एव हेतुफलभूताश्च युगपत्कालभाविनः सन्तान इति व्यपदिश्यन्ते, एकाकारपरामर्शहेतवश्च संभवन्तः संतानिसमुदायिशब्दाभ्यां निर्दिश्यन्त इत्यतः, समुदायादिचित्तेन-समुदायाद्यमिप्रायेण, भारहारादिदेशना, न विरुध्यत इति शेषः। प्रथमेनादिशब्देन सन्तानादिपरिग्रहः, द्वितीयेन भारादेः । तत्र त एव स्कन्धाः समुदायसन्तानादिरूपेण विवक्षिताः पुद्गलो भारहार इति च व्यपदिश्यन्ते । तत्रैव लोके पुद्गलामिधानात् । अत एव भगवता-"भारहारः कतमः पुद्गल” इत्युक्त्वा , "योऽसावायुष्मन्नेवनामा, एवंजातिः, एवंग्मेत्र, एवमाहार, एवं सुखदुःखं प्रति संवेदी, एवं दीर्घायु"रित्यादिना पुद्गलो व्याख्यातः । स एवं स्कन्धसमुदायलक्षणः प्रज्ञप्तिः सन्नन्यथा विज्ञायेत नान्यो नित्यो द्रव्यं सन् परपरिकल्पितो विज्ञायेतेति प्रदशार्थ ( प्रदेशनार्थः ? ) अवश्यं चैवं विज्ञेयम् , अन्यथा भारादीनामपि स्कन्धेभ्यः पृथग्देशितत्वात्पुद्गलवत्स्कन्धानन्तर्गतं तत्स्यात् । तस्मात्त एव स्कन्धा ये स्कन्धान्तरस्योत्पादाय वर्तन्ते पूर्वकास्ते भार इति कृत्वोक्ताः । ये तूपेष्यन्ते फलभूतास्ते भारहारा इत्युक्ताः इत्यज्ञापकमेतत् । उद्योतकरस्त्वाह-आत्मानमनभ्युपगच्छता नेदं तथागतवचनमर्थवत्तायां शक्यं व्यवस्थापयितुम् , यस्मादिदमुक्तम् । रूपं भदन्त नाहम् , वेदना संज्ञा संस्कारो विज्ञानं भदन्त नाहम् , एवमेतद्भिक्षो रूपं न त्वम् , वेदना संज्ञा संस्कारो विज्ञानं न त्व"मिति । एतेन हि रूपादयः स्कन्धा अहकारविषयत्वेन प्रतिषिद्धाः। विशेषप्रतिषेधश्चायं न सामान्यप्रतिषेधः । आत्मानं पानभ्युपगच्छता सामान्येनैव प्रतिषेद्धव्यम् । नैव त्वमसीति । विशेषप्रतिषेधस्त्वन्यविधिनान्तरीयको भवति । यथा वामेनाक्ष्णा न पश्यामीत्युक्त गम्यत एव दक्षिणेन