________________
पञ्जिकासमेतः ।
१२९
1
"
1
मात्रानीतस्य केनचित्प्रतिषेद्धुमशक्यत्वात्, किंत्विदमिह वस्तुरूपं निरूप्यते । किमसौ पुद्गलाख्यस्य वस्तुनः स्वभावः सर्वदाऽस्त्याहोस्विन्नास्तीति, यद्यस्ति तदा नित्य एवासौ, न हि नित्यो नामान्य एव कश्चित् अपि तु यः स्वभावः सदाऽवस्थायी न विनश्यति स नित्य उच्यते । यथोक्तम् — “ नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति” इति । अथ नास्तीति पक्षस्तदाऽप्यनित्य एवासावनवस्थायिस्वभावलक्षणत्वादनित्यस्य । अतः क्षणिकाक्षणिकव्यतिरेकेण गत्यन्तराभावादक्षणिकस्य च क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् क्षणिकत्वेनार्थक्रियासामर्थ्यलक्षणं सत्त्वं व्याप्तमिति पुनले क्षणिकत्वनिवृत्तौ सत्त्वनिवृत्तिः सिद्धा ॥ ३४७ ॥
यद्येवं यदि पुद्गलो नास्त्येव कस्माद्भगवता स जीवस्तच्छरीरमन्यो जीवोऽन्यच्छरीरमिति पृष्ठे नोक्तमव्याकृतमेतदिति यावता नास्त्येवेति कस्मान्नोक्तमित्याहआगमार्थविरोधे वित्यादि ।
"
आगमार्थविरोधे तु पराक्रान्तं महात्मभिः । नास्तिक्यप्रतिषेधाय चित्रा वाचो दयावतः ॥ ३४८ ॥
यदि हि पुलो धर्मी सिद्धो भवेत्तदा तस्य तत्त्वान्यत्वादिधर्मोऽव्याकृतमर्हेन् । यावता स एव धर्मो न सिद्धस्तत्कथमसतस्तस्य धर्मो निर्दिश्येत । न ह्यसतः खरविषाणादेस्तीक्ष्णतादि संभवति येनासौ व्याक्रियते । अतः प्रज्ञप्तिसत्त्वमेव ख्यापयपुद्गलस्याव्याकृतमेतदिति भगवानुवाच । नास्तीत्येवं तु नोक्तम्, परेण धर्मिस्वरूपस्यापृष्टत्वात् । अथवा प्रज्ञप्तिसतोऽप्यभावाभिनिवेशपरिहारार्थं शून्यतादेशनायामभव्यविनेयजनाशयापेक्षया नास्तीत्येव नोक्तम् । यश्चोक्तम् — “दृष्टिदंष्ट्रा भेदं च भ्रंशं चावेक्ष्य कर्मणाम् । देशयन्ति जिना धर्म व्याघ्री पोतापहारवत् ।। " ( ? ) इति एवमाचार्यवसुबन्धप्रभृतिभिः कोशपरमार्थसप्ततिकादिष्वमिप्रायप्रकाशनात्पराक्रान्तम्, अतस्तत एवावगन्तव्यम् । इह त्वतिग्रन्थविस्तरभिया न लिख्यत इति भावः । यद्येबम्, “अस्ति सत्त्व उपपादक" इत्येतत्कथं नीयत इत्याह- नास्तिक्येत्यादि । सत्त्वास्तित्वाभिधायिन्यो हि देशनाश्चित्रा दयावतः, न विरुध्यन्त इति वाक्यशेषः । यत्र हि चित्तसन्ताने सत्त्वप्रज्ञप्तिस्तस्यां सत्यामनुच्छेदमभिसन्धायास्ति सत्त्व इत्युक्तं भगबता । अन्यथा ह्यनुपरतकार्यकारणक्षणपरम्पराणामपि संस्काराणामभावावगमात्। परलोकिनोऽसम्त्वात्परलोकासिद्धिरिति नास्तिक्यदृष्टयो भवेयुर्विनेयाः ॥ ३४८॥
१७