________________
१२८
तस्वसहा। न चायमसिद्धो हेतुरिति दर्शयन्नाह तथा हीत्यादि ।
तथा हि वेदनाविश्यः पुद्गलोऽवाच्य उच्यते ।
तत्त्वान्यत्वेन वाच्यास्तु रूपसंज्ञादयस्ततः ॥ ३४५॥ ... तथा हि पुद्गलो वेदनासंज्ञादिभ्यस्तत्त्वान्यत्वाभ्यामवाच्य इष्यते । रूपवेदनाद. यस्तु, ततः वेदनादिभ्यः, परस्परमन्यत्वेन वाच्या इत्यतो नासिद्धता हेतोः॥३४५॥ ___ इतोऽपि विरुद्धधर्माध्यासः सिद्ध इत्यादर्शयति-अनित्यत्वेनेत्यादि । .. अनित्यत्वेन वाच्याश्च रूपस्कन्धादयो मताः।
पुद्गलस्तु तथा नेति ततो विस्पष्टमन्यता ॥ ३४६ ॥ - अनित्याः सर्वसंस्कारा इति वचनापादयो पनित्यत्वेन वाच्याः, पुद्गलस्तु तथा नानित्यत्वेन वाच्य इष्टः सर्वप्रकारेण तस्यावाच्यत्वात् । न चाप्यनैकान्तिकता हेतोः, एतावन्मात्रनिबन्धनत्वाद्भेदव्यवहारस्य, अन्यथा हि सकलमेव विश्वमेकं वस्तु स्यात् , ततश्च सहोत्पादविनाशप्रसङ्गः ॥ ३४६ ॥
न केवलं तत्त्वान्यत्वाभ्यामवाच्यत्वादवस्तु पुद्गलोऽयमिति प्रतिपादितम् , इतो. ऽप्यनित्यत्वेनावाच्यत्वादेवावस्त्विति प्रतिपादयन्नाह-अर्थक्रियास्वित्यादि।
अर्थक्रियासु शक्तिश्च विद्यमानत्वलक्षणम् ।
क्षणिकेष्वेव नियता तथाऽवाच्ये न वस्तुता ॥ ३४७ ॥ इदमेव हि विद्यमानत्वलक्षणं वस्तुस्वभावो यदुतार्थक्रियासु शक्तिः, सर्वसामर्थ्यविरहलक्षणत्वादवस्तुत्वस्येति सामर्थ्यादर्थक्रियासामर्थ्यलक्षणमेव वस्तुत्वमवतिष्ठते।सा चार्थक्रिया क्षणिकेष्वेव नियता । क्षणिकत्वेनैव व्याप्तेति यावत् । नित्यस क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । अतस्तथा क्षणिकत्वेनावाच्ये पुद्गले वस्तुता नास्ति । तत्र तद्व्यापकस्य क्षणिकत्वस्य निवृत्तेः वृक्षत्वनिवृत्तौ शिंशपात्वादिनिवृत्तिवदिति । यथोक्तम्-अनित्यत्वेन योऽवाच्यः स हेतुर्नहि कस्यचिदिति । स्यादेतद्यदि पुद्गलो नित्यः स्यात्तदा तस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधः स्यात्, यावता यथाऽसावनित्यत्वेनावाच्यः तथा नित्यत्वेनापीति, अतोऽर्थक्रियासामर्थ्यमस्याविरुद्धमेवेति । वदसम्यक्, न शुभयाकारविनिर्मुकं वस्तु स्खलक्षणं युक्तम् , नित्यानित्ययोरन्योन्यवृत्तिपरिहारस्थितलक्षणत्वात् । वस्तुन्येकाकारत्यागपरिप्रहयोतदपराकारपरिग्रहत्यागनान्तरीयकत्वात् । न स्मामिरवाच्यशब्दनिवेशनं पुद्रले प्रतिषिष्यते, खतंत्रेला