________________
पलिकासमेतः। अतावनिषेषश्च तत्वमेवाभिधीयते।
नातिकामति तद्वस्तु तत्त्वं भेदं च वस्तुनः ॥ ३४२ ॥ वस्त्वेव हि भेदाभेदविकल्पयोरधिष्ठानम् , नावस्तु । तेन तत्त्वान्यत्वाचनिर्देशो निःस्वभावेष्वेव-स्वभावविरहितेष्वेव युज्यते । न वस्तुनि तत्त्वान्यत्वाद्यनिर्देशो युज्यत इति संबन्धः। तत्र भेदाभेदाभ्यां गयन्तराभावात्। कथं पुनर्गत्यन्तराभाव इत्याहयदेतद्धीत्यादि । तथा हि-रूपादिखभावः पुद्गलो न भवतीति यदेतत्तनिषेधनम् , तत्तस्माद्रूपादेः सकाशादन्यत्वमेवाभिधीयते । स्वभावान्तरविधिनान्तरीयकत्वाद्वस्तुनो वस्त्वन्तरभावनिषेधस्य । प्रयोगः-यद्वस्तुयत्स्वभावविरहितं तत्ततोऽन्यत्, यथा रूपं वेदनातः, रूपादिस्वभावविरहि च पुद्गलाख्यं वस्तु, इति स्वभावहेतुः । यश्चायं वस्तुनोऽतद्भावनिषेधः-अतद्रूपनिषेधः स तत्त्वमव्यतिरेक एवाभिधीयते । तस्वविधिनान्तरीयकत्वाद्वस्तुसतोऽर्थान्तरभावनिषेधस्य । अन्यथा हि यदि तस्य न कश्चित्वभावो विधीयते तदा सर्वस्वभावनिषेधादवस्तुत्वमेव स्यात् । सर्वस्वभावनिषेधलक्षणत्वादवस्तुत्वस्येति । प्रयोगः-यद्वस्तु यतोऽर्थान्तरत्वेन प्रतिषिद्धात्मतत्त्वं तत्तदेव, यथा रूपं स्वस्खभावादर्थान्तरत्वेन प्रतिषिद्धात्मतत्त्वम् । प्रतिषिद्धात्मतत्त्वश्च रूपादिभ्योऽर्थान्तरत्वेन पुद्गल इति स्वभावहेतुः । तत्तस्माद्वस्तुनः सकाशातत्त्वान्यत्वे वस्तु नातिक्रामतीति सिद्धा व्याप्तिमौलस्य हेतोः ॥ ३४० ॥ ३४१ ॥ ३४२ ॥ ... एवं तावदवाच्यत्वाभ्युपगमे प्रज्ञप्तिसत्वं पुद्गलस्य प्राप्तमिति प्रतिपादितम् । इदानीं वस्तुत्वाभ्युपगमे वा पुद्गलस्यावाच्यत्वमयुक्तमन्यथा स्ववचनविरोधः प्रतिशायाः स्यादिति मन्यमानो निगमयति-स्कन्धेभ्य इत्यादि ।
स्कन्धेभ्यः पुद्गलो नान्य इत्येषाऽनन्यसूचना।
स्कन्धो न पुद्गलश्चेति व्यक्ता तस्येयमन्यता ॥ ४४३॥ अपि चावाच्यः पुद्गल इति ब्रुवाणैर्भवद्भिः स्फुटतरमेव स्कन्धेभ्यः पुद्गलस्यान्यत्वमुचैरुद्धोषितमिति दर्शयति-विरुद्धधर्मसङ्गो हीत्यादि ।
विरुद्धधर्मसङ्गो हि वस्तूनां भेद उच्यते।
स्कन्धपुद्गलयोश्चैव विद्यते भिन्नता न किम् ॥ ३४४ ॥ प्रयोगः-यौ परस्परपरिहारस्थितधर्माध्यासितौ तौ परस्परमिन्नौ, यथा रूपवेल्ने मूर्तत्वामूर्तत्वयुक्ते, वाच्यत्वावाच्यत्वादिपरस्परविरुद्धधर्माध्यासितौ च स्कन्धपुद्रलाविति खभावहेतुः॥ ३४४ ॥