________________
तत्त्वसङ्कहः।
यदि स्कन्धेभ्योऽन्यः पुद्गलः स्यात्तदानीं तैर्थिकपरिकल्पितात्मदृष्टिर्भवेत् , ततश्च शाश्वतात्मप्रसङ्गः । न च शाश्वतस्यात्मनः कर्तृत्वभोक्तृत्वादि युक्तम् , आकाशवत्तस्य सर्वदा निर्विशिष्टत्वात् । प्रतिषिद्धश्च भगवता शाश्वत आत्मा, निरात्मानः सर्वे धर्मा इति च वचनं व्याहन्येत । अनन्यस्तर्हि भवत्विति चेदाह-नानन्य इत्यादि । यदि हि स्कन्धा एव रूपादयः पुद्गलः स्यात्तदा बहुभ्यः स्कन्धेभ्योऽनन्यत्वात्तत्वरूपवदनेकता प्राप्नोति पुद्गलस्य । एकश्चेष्यते । यथोक्तम्-"एकः पुद्गलो लोक उत्पद्यमान उत्प)यते यद्वत्तथा गत” इति (?)। आदिशब्देनानित्यत्वादिपरिप्रहः । एवं च सति उच्छेदित्वं स्कन्धवत्पुद्गलस्यापि स्यात् । ततश्च कृतकर्मविप्रणाशप्रसङ्गः प्रतिषिद्धश्च भवतोच्छेदवाद इत्यतोऽस्त्यवाच्यः पुद्गल इति सिद्धम् ॥ ३३७ ॥
ते वाच्या इत्यादिना वस्तुवत्पुद्गलो न भवत्यवाच्यत्वादिति स्ववचनादेव भवद्भिः प्रतिपादितमिति दर्शयति ।
ते वाच्याः पुद्गलो नैव विद्यते पारमार्थिकः ।
तत्त्वान्यत्वादवाच्यत्वान्नभाकोकनदादिवत् ॥ ३८॥ प्रयोगः–यवस्तुनः सकाशात्तत्त्वान्यत्वाभ्यां वाच्यं न भवति न तद्वस्तु, यथा गगननलिनम् , न भवति च वाच्यः पुद्गल इति व्यापकानुपलब्धेः । वैधयेण वेदनादि ॥ ३३८॥ कथं पुनरत्र व्याप्तिः सिद्धेत्याह-अन्यत्वमित्यादि ।
अन्यत्वं वाऽप्यनन्यत्वं वस्तु नैवातिवर्त्तते ।
वस्तुतो यत्तु नीरूपं तदवाच्यं प्रकल्प्यते ॥ ३३९ ॥, वस्तुनो हि सकाशाद्वस्तु नैव तत्त्वान्यत्वे व्यतिक्रामति, गत्यन्तराभावात् । अन्यथा रूपादीनामपि परस्परतोऽवाच्यत्वं स्यात् । तस्मानीरूपमखभावमेवावाच्यं प्रकल्प्यते, न तु वस्तु ॥ ३३९॥ कथमित्याह-भेदाभेदविकल्पस्येत्यादि ।
भेदाभेदविकल्पस्य वस्त्वधिष्ठानभावतः। तत्त्वान्यत्वाधनिर्देशो निःखभावेषु युज्यते ॥ ३४०॥ न वस्तुनि यदेतद्धि तन्नेति प्रतिषेधनम् । लदस्त्वन्तरवसमायक्तमन्पलमुच्यते ॥ ३४१॥