________________
१२५
पलिकासमेतः। अथापि स्यात्कल्पितावेव बन्धमोक्षौ न पारमार्थिकाविति, तदत्र कल्पनाया अपि निबन्धनं वाच्यम् । अनित्यज्ञानपक्षे तु निबन्धनमुपदर्शितमेव । ततश्च योऽयं भवतामपवर्गप्राप्तये संसारसमतिक्रमाय च तत्त्वभावनाप्रयत्नः स केवलमायासफल एवेति दर्शयति-किं वेत्यादि ।
किंवा निवर्तयेयोगी योगाभ्यासेन साधयेत् ।। किंवा न हातुं शक्यो हि विपर्यासस्तदात्मकः॥ ३३४ ॥ तत्त्वज्ञानं न चोत्पाचं तादात्म्यात्सर्वदा स्थितेः। योगाभ्यासोऽपि तेनायमफलः सर्व एव च ॥ ३३५ ॥
औपनिषदकल्पितात्मपरीक्षा।। यदि हि तत्त्वभावनया योगी किंचिन्निवर्तयेत्प्रवर्त्तयेद्वा तदा स्वादस्य सफल: प्रयासः, यावता न तावदसौ विपर्यासं निवर्त्तयति, यस्मादसौ विपर्यासस्तदात्मक:नित्यज्ञानात्मकः, तस्मान हातुं शक्यः । नित्यस्याविनाशितया त्यागासम्भवात् । नापि तत्त्वज्ञानं भावनया साधयति, नित्यज्ञानात्मतया सर्वदा तत्वज्ञानस्यावस्थितत्वात् । तस्मान युक्तमेतत् ॥ ३३४ ॥ ३३५ ॥
इत्यौपनिषदिकात्मपरीक्षा। धात्सीपुत्रीयपरिकल्पितपुद्गलप्रतिषेधार्थमाह-केचित्त्वित्यादि ।
केचित्तु सौगतम्मन्या अप्यात्मानं प्रचक्षते।
पुद्गलव्यपदेशेन तत्त्वान्यत्वादिवर्जितम् ॥ ३३६ ॥ केचिदिति । वात्सीपुत्रीयाः । ते हि सुगतसुतमात्मानं मन्यमाना अपि पुद्गलव्याजेन स्कन्धेभ्यस्तत्त्वान्यत्वाभ्यामवाच्यमात्मानं कल्पयन्ति । ये हि नाम भगवतो नैरात्म्यवादिनस्सुगतस्य सुतत्वमभ्युपगतास्ते कथमिव वितथात्मदृष्टिममिनिविष्टास्युरिति दर्शयनुपहासपदमाह-सौगतम्मन्या अपीति । तथाहीदमात्मनो लक्षणम्-यो हि शुभाशुभकर्मभेदानां कर्ता स्वकृतकर्मफलस्य चेष्टानिष्टस्य च भोक्ता यश्च पूर्वस्कन्धपरित्यागादपरस्कन्धान्तरोपादानात्संसरति भोक्ता च स आत्मेति । एतब सर्व पुद्गलेऽपीष्टमिति केवलं नानि विवादः ॥ ३३६ ॥ अथ पुदलस्यावाच्यत्वे का पुनयुक्तिरित्याह-स्कन्धेभ्य इत्यादि ।
स्कन्धेभ्यः पुद्गलो नान्यस्तीर्थदृष्टिप्रसङ्गतः। नानन्योग्नेकताचा साध्वी तमादपाच्यता ॥ ३३७॥