________________
१२४
तत्त्वसङ्कहा। त्वप्रसङ्गः । व्यतिरेके चावस्थानां तस्यैता इति संबन्धासिद्धिः, उपकाराभावात् । निरीकविज्ञानमात्राभ्युपगमविरोधश्च ॥ ३३०॥ ३३१ ॥
किंच-नित्यस्य ज्ञानात्मनः प्रत्यक्षतो वा सिद्धिर्भवेदनुमानतो वा न तावत्प्रत्यक्षत इति दर्शयति-रूपेत्यादि ।
रूपादिवित्तितो भिन्नं न ज्ञानमुपलभ्यते ।
तस्याः प्रतिक्षणं भेदे किमभिन्नं व्यवस्थितम् ॥ ३३२॥ न हि क्रमप्रतिभासिरूपादिसंविद्वयतिरेकेण नित्यैकरूपमवस्थात ज्ञानमनुभूयते, येन प्रत्यक्षतः सिद्धिः स्यात् । तस्याश्च रूपादिसंवित्तेः क्रमेणानुभूयमानायाः प्रतिक्षणं ध्वंसे सिद्धे किमपरमभिन्नमस्तीति वाच्यम् । तस्मादुपलब्धिक्षणप्राप्तस्य तथाविधज्ञानात्मनोऽनुपलब्धेरसद्व्यवहारविषयतैवेति भावः । न चाप्यनुमानतः सिद्धिरिति मन्यते । तथा|नुमानं भवत्वभावलिङ्गं वा भवेत्, कार्य वा, न तावत्स्वभावतथाभूतस्य ज्ञानात्मनः साधकं प्रमाणमस्ति, बाधकं तु प्रत्यक्षादि विद्यत इत्ययुक्तो नित्यज्ञानविवर्तः ॥ ३३२॥ किंचास्मिन्पक्षे बन्धमोक्षव्यवस्था न प्राप्नोतीति दर्शयति-विपर्यस्तेत्यादि ।
विपर्यस्ताविपर्यस्तज्ञानभेदो न विद्यते।
एकज्ञानात्मके पुंसि बन्धमौक्षौ ततः कथम् ॥ ३३३ ॥ यस हि प्रतिक्षणध्वंसि प्रतिपुरुषमनेकमेव विज्ञानं सन्तानभेदि प्रवर्चत इति पक्षस्तस्य विपर्यस्ताविपर्यस्तज्ञानप्रबन्धोत्पादवशाद्वन्धमोक्षव्यवस्था युक्तिमती । योगाभ्यासक्रमेण च परिशुद्धतरतमज्ञानोत्पादादपरिशुद्धज्ञानसंताननिवृत्चेरपवर्गः प्राप्यत इति सफलो मोक्षप्राप्तये प्रयासः। यस्य तु पुनर्भवतो नित्यैकज्ञानस्वभाव आत्मेति पक्षस्तस्य कथमेकज्ञानात्मके पुंसि बन्धमोक्षौ भवतः। तथाहि-यदि विपर्यस्तखभावमेकं ज्ञानं सदा तदाऽपरस्यावस्थान्तरस्याभावान मोक्षव्यवस्था स्यात् । अथाविपर्यस्तं तदा नित्यं परिशुद्धस्वभावत्वान्न बन्धः स्यात् । अस्माकं तु सन्तानभेदेन विज्ञप्तिः संक्लिष्टा शुद्धा चेष्यत इति युक्ता बन्धमोक्षव्यवस्था । यथोक्तम्"संछिष्टा च विशुद्धा च समला निर्मला च सा । संक्लिष्टा चेद्भवेनासौ मुक्ताः स्युः सर्वदेहिनः ॥ विशुद्धा चेवेनासौ व्यायामो निष्फलो भवेत् । इति ॥ ३३३ ॥