________________
पलिकासमेतः। अपरेऽद्वैतदर्शनावलम्बिनश्चौपनिषदिकाः क्षित्यादिपरिणामरूपनित्यैकज्ञानस्वभावमात्मानं कल्पयन्ति । अतस्तेषामेव मतमुपदर्शयन्नाह-नित्येत्यादि ।
नित्यज्ञानविवर्तोऽयं क्षितितेजोजलादिकः।
आत्मा तदात्मकश्चेति सङ्गिरन्तेऽपरे पुनः ॥ ३२८ ॥ तदात्मक इति । क्षित्यादिपरिणामरूपनित्यैकज्ञानात्मक इत्यर्थः । अपर इति । औपनिषदिकाः ॥ ३२८॥ किमत्र प्रमाणमित्याह-ग्राह्येत्यादि ।
ग्राह्यलक्षणसंयुक्तं न किञ्चिदिह विद्यते ।
विज्ञानपरिणामोऽयं तस्मात्सर्वः समीक्ष्यते ॥ ३२९॥ न हि झियादयो ज्ञानव्यतिरेकेण ग्राह्यलक्षणापन्नाः सन्ति येन ते प्रतिभासेरनवयविनः। परमाणूनां चासत्त्वात् । तस्मात्सामर्थ्याद्विज्ञानप्रतिभासरूपा एवामी क्षियादय इति व्यवसीयन्ते । अयमिति । क्षित्यादिः ॥ ३२९ ॥ तेषामित्यादिना प्रतिविधत्ते ।
तेषामल्पापराचं तु दर्शनं नित्यतोक्तितः। रूपशब्दादिविज्ञानां(ने?) व्यक्तं भेदोपलक्षणात् ॥३३०॥ एकज्ञानात्मकत्वे तु रूपशब्दरसादयः।
सकृद्वेचाः प्रसज्यन्ते नित्येऽवस्थान्तरं न च ॥ ३३१ ॥ अल्पापराधमिति । ज्ञानमात्रस्य युक्त्युपेतस्याभ्युपगमात् । यद्येवं स्वल्पोऽपि किमिति तत्रापराध उच्यत इत्याह-नित्यतोकित इत्यादि । कस्मात्पुनर्नित्यत्वाभ्युपगमो न युक्त इत्याह-रूपशब्दादीत्यादि । नित्यता हि नाम तावस्थ्यमु. च्यते, अतादवस्थ्यं त्वनित्यता, न च रूपशब्दादिप्रतिभासिविज्ञानमेकावस्थं सर्वदाऽनुभूयते, किन्तु क्रमेण कदाचिद्रूपप्रतिभासमन्यदा च शब्दादिप्रतिभासम् । तद्यवि नित्यैकज्ञानप्रतिभासात्मका अमी शब्दादयः स्युस्तदा विचित्रास्तरणप्रतिभासवत्सकदेव प्रतिभासेरन् । तत्प्रतिभासात्मकस्य ज्ञानस्य सर्वदाऽवस्थितत्वात् । अथापि स्यादवस्थान्तरमेतत्क्रमेण शब्दादिप्रतिमासं ज्ञानस्योत्पद्यते । तेन सकदेव शन्दाविसंवेदनं न भविष्यतीत्याह-नित्येऽवस्थान्तरं न चेति । अवस्थानामवस्थातुरनन्यवादवभावदवलातुरपि नाशोत्पादौ साताम् । अवसाववद्वाऽवस्थानामपि नित्य