________________
१२२
तस्वलारः । पर्याया इति । रूपादयः, खसंविदितस्वभावाश्च दुःखादयः। केवला इति । अ. मिकद्रव्यरूपविरहिणः । नित्यस्य च क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । अर्थक्रियाकारित्वमेषामुदयव्ययधर्मित्व एव सति युज्यत इत्यनुमानतोऽप्येषामर्थक्रियाकारिणां सत्वलिङ्गामेरात्म्यं प्रसिद्धम् ॥ ३२४ ॥ यदुक्तं न चोपलभ्यरूपस्येत्यादि, तत्राथेत्यादिना परस्योत्तरमाशङ्कते ।
अथ सन्मूर्छितं रूपं द्रव्यपर्याययोः स्थितम् ।
तद्विरूपं हि निर्भागं नरसिंहवदिष्यते ॥ ३२५ ॥ संमूर्छितम्-एकलोलीभूतम् , अतो विवेकेन द्रव्यरूपं न प्रतिभासते विद्यमानमपीति भावः । संमूर्छितत्वे कारणमाह-तद्विरूपं हीत्यादि । तत्-आत्मादिकं वस्तु । यस्मात्तहिरूपमपि सनि गमिष्यते यथा नरसिंहस्तस्मानिर्भागत्वात्संमूर्छितोभयरूपं तदिति न पृथगुपलभ्यते ॥ ३२५ ॥ तदेतत्परस्परपराहतमभिधीयते भवतेति दर्शयन्नाह नन्वित्यादि ।
ननु द्विरूपमित्येव नानार्थविनिवन्धनः ।
निर्देशो रूपशब्देन खभावस्थाभिधानतः ॥ ३२६ ॥ यदि हि निर्भागं तदा द्विरूपमित्येतद्व्याहतम् , नानार्थविनिबन्धनत्वादस्य व्यपदेशख्स, कस्मात् ? रूपशब्देन स्वभावस्याभिधानात् । तथा हि द्वे रूपे द्वौ स्वभावौ यस्य स द्विरूप उच्यते न चैकस्य स्वभावद्वयं युक्तमेकत्वहानिप्रसङ्गात् । केवलं यावेव स्वभावौ भवता प्रतिपादितौ, न पुनरेकं वस्तु द्विरूपम् , परस्परपरिहारस्थितलक्षणत्वादेकत्वानेकत्वयोः ॥ ३२६ ॥
यश्च नरसिंहः सोऽप्येकः सन् द्विरूपो न सिद्ध इति दर्शयति-नरसिंहोऽपी. लादिना।
नरसिंहोऽपि नैवैको यात्मकश्योपपद्यते। अनेकाणुसमूहात्मा स तथा हि प्रतीयते ॥ ३२७ ॥
दिगंबरपरिकल्पितात्मपरीक्षा। केवलं विवादास्पदीभूतं नोपपद्यत इत्यपिशब्दः । स इति । नरसिंहः । तथेति । अवयववैचित्र्येण, पृथुतरदेशाकान्तिरूपेण च । अन्यथैवं न प्रतिभासेत । मक्षिकापदमात्रेणापि च पिधाने तस्य तथाविधस्यावरणप्रसङ्गश्च । एतेन मेचकमणिकल्पा वर्णादयः प्रत्युक्ताः। एतच विस्तरेणावयविनिषेधे प्रतिपादयिष्याम इति भावः ॥३२७॥
इति दिगम्बरपरिकल्पितात्मपरीक्षा। ।