________________
पखिकासमेतः ।
न चोपलभ्यरूपस्य पर्यायानुगतात्मनः ।
द्रव्यस्य प्रतिभासोऽस्ति तन्नास्ति गगनाब्जवत् ॥ ३२२ ॥
तेन यदुक्तं प्रत्यक्षत एवानुगतो द्रव्याला सिद्ध इति, तदसिद्धम् । न हि पर्यायव्यतिरिच्यमानशरीरः कचिदपि विज्ञाने प्रत्यक्षसंमते प्रतिभासमानोऽनुगतैकरूपो द्रव्यात्मा लक्ष्यते ॥ ३२२ ॥
यद्येवं यदि पर्यायव्यतिरेकेण द्रव्यात्मा नास्ति तदा संख्यादिभेदः कथं सिध्यतीत्याह - विविधार्थेत्यादि ।
विविधार्थक्रियायोग्यास्तुल्यादिज्ञानहेतवः । तथाविधार्थसङ्केतशब्दप्रत्ययगोचराः ॥ ३२३ ॥
१२१
विविधाः - नानाप्रकाराः, अर्थक्रियाः रूपादीनां पर्यायाणां समानासमानभेदात्, तत्र समाना जलसंधारणादिलक्षणाः, असमाना वखरागलोचनादिज्ञानोत्पादलक्षणाः, तत्र योग्याः समर्था इति विग्रह: । तत्र साधारणे कार्ये सर्वेषामेव यौगपद्ये - नोपयोग इति समस्तानां हेतुत्वज्ञापनार्थमभिन्नद्रव्यरूपाभावेऽपि त एव भेदिनोऽपि घट इत्यादिना शब्देनैकसङ्ख्याविशिष्टा उच्यन्ते । असाधारणकार्योपयोगित्ववि - वक्षायां तु नानासङ्ख्यास्त इति सङ्ख्याभेदः कार्यभेदश्च तेषु व्यवस्थाप्यते । लक्षणभेदस्तर्हि कथमित्याह — तुल्यादिज्ञानहेतव इति । आमपकाद्यवस्थासु प्रतिक्षणध्वंसिनोऽपि सदृशसन्निवेशा विशेषा एवोत्पद्यमाना निर्विकल्पानुभवविषया अनुभूयमानाः सर्वावस्थासु घटो घट इत्यादिसदृशप्रत्ययहेतवो भवन्ति । श्यामलोहितादिवर्णवैलक्षण्येन जायमाना अतुल्यप्रत्ययहेतव इत्येवमेकरूपानुगममन्तरेणापि तुल्यातुल्यज्ञानहेतवो भवन्तोऽनुवृत्तिव्यावृत्तिरूपेण व्यवस्थाप्यन्त इति लक्षणभेदो व्यवस्थाप्यते । तुल्यादीत्यादिग्रहणेनातुल्यं ज्ञानं गृह्यते । कस्तर्हि संज्ञाभेद इत्याहतथाविधेत्यादि । तथाविधः —— विविधार्थक्रियायोग्यस्तुल्या दिज्ञानहेतुश्च पदार्थों रूपादिः, अर्थः – विषयो यस्य, घट इति रूपादय इति च सङ्केतस्य स तथोक्तः, तथाविधार्थः सङ्केतो येषां शब्दप्रत्ययानां ते तथोक्ताः, तेषां गोचरा इति विग्रहः ॥ ३२३ ॥
तेन प्रत्यक्षत एव भावानां नैरात्म्यं प्रसिद्धमित्युपसंहारेण दर्शयति - उदयेत्यादि । उदययव्यधर्माण: पर्याया एव केवलाः ।
संबेधन्ते ततः स्पष्टं नैरात्म्यं चातिनिर्मलम् ॥ ३२४ ॥
१६