________________
१२०
तत्त्वसङ्ग्रहः ।
ततश्च परमार्थेन द्रव्यपर्याययोरभेदे सति लक्षणभेदोऽपि न प्राप्नोतीति दर्शयति ।
अगौणे चैवमित्यादि ।
अगौणे चैवमेकत्वे द्रव्यपर्याययोः स्थिते । व्यावृत्तिमद्भवेद्रव्यं पर्यायाणां स्वरूपवत् ॥ ३१७॥ यदि वा तेsपि पर्यायाः सर्वेऽप्यनुगतात्मकाः । द्रव्यवत्प्राप्नुवन्त्येषां द्रव्येणैकात्मता स्थितेः ॥ ३१८ ॥ यद्व्यावृत्तिमद्रूपाभिन्नस्वभावं तद्व्यावृत्तिमत्, यथा पर्यायाणां स्वरूपम्, व्यावृत्तिमद्रूपाव्यतिरिक्तं च द्रव्यमिति स्वभावहेतुः । अथ वा यदनुगतात्मरूपाव्यतिरिक्कं तदनुगतात्मकमेव, यथा द्रव्यरूपम्, अनुगतात्मरूपाविभिन्नस्वभावाश्च सुखादयः पर्याया इति स्वभावहेतुरेव । अन्यथा विभिन्नयोगक्षेमत्वाद्भेद एव भवेत् । विरुद्धधर्माध्यासितस्याप्येकत्वे भेदव्यवहारोच्छेद एव स्यादिति विपर्यये बाधकं प्रमाणम् ॥ ३१७ ।। ३१८ ॥
तत इत्यादिनोपसंहरति ।
ततो नावस्थितं किञ्चिद्रव्यमात्मादि विद्यते । पर्यायाव्यतिरिक्तत्वात्पर्यायाणां खरूपवत् ॥ ३१९ ॥
आत्मादीति । आदिशब्देन घटव्रीह्यादिपरिग्रहः ॥ ३१९ ॥ न चेत्यादिना द्वितीयप्रसङ्गसाधनफलमाह ।
न चोदयव्ययाक्रान्ताः पर्याया अपि केचन । द्रव्यादव्यतिरिक्तत्वात्तद्रव्यनियतात्मवत् ॥ ३२० ॥
तस्यापि द्रव्यस्य पर्यायरूपेणोदयव्ययाक्रान्तस्येष्टत्वादतो माभूत्साध्यवैकल्यप्रसङ्ग इति नियतात्मवदित्युक्तम् । नियतश्चासावात्मा स्वभावो द्रव्यादिरूपेणेति विशेषणसमासः || ३२० ॥
ततो निरन्वय इत्यादिना निगमयति ।
ततो निरन्वयो ध्वंसः स्थिरं वा सर्वमिष्यताम् । एकात्मनि तु नैव स्तो व्यावृत्त्यनुगमाविमौ ॥ ३२१ ॥
न केवलं पर्यायादमिन्नस्वभावाद्रव्यरूपस्यानुगतात्मनोऽसिद्धि:, इतोऽपि पर्याय - व्यतिरेकेणोपलब्धिलक्षणप्राप्तस्यानुपलब्धेरसद्व्यवहारविषयत्वमेवास्येति दर्शयन्नाह -
न चेत्यादि ।