________________
पखिकासमेतः।
११९ यावता देशकालखमावाभेदाव्यपर्याययोरैक्यमिष्टम् । सयादिभेदात्तु भेदः । तत्र सङ्ख्या, एकत्वबहुत्वादि । तथा हि-द्रव्यमेकसङ्ख्यायुक्तम् , पर्यायास्तु सुखादयोनेकसङ्ख्याविशिष्टाः। लक्षणमपि मिन्नम् । यतोऽनुवृत्तिलक्षणं द्रव्यम् , पर्यायास्तु व्यावृत्तिलक्षणाः, संज्ञा-नाम, अर्थ:-कार्यम् । तथा चोक्तम्-देशकालखभावाभेदादभेदो धर्मधर्मिणोः, सङ्ख्यासंज्ञालक्षणकार्यभेदात्तु भेदः, तद्यथा घटस्य रूपादीनां चेति । तथा हि-घटतद्रूपादीनां देशादिमिरभेदः, य एव हि देशकालस्वभावश्च घटस्य स एव रूपादीनाम् , सङ्ख्यादिमिश्च घटात्तेषां भेदः । तथा ह्येको घटो बहवस्तु रूपादय इति सङ्ख्याभेदः। घटो रूपादय इति च संज्ञाभेदः । अनुवृत्तिलक्षणं घटादिद्रव्यं व्यावृत्तिलक्षणास्तु रूपादयः पर्याया इति लक्षणभेदः । घटेनोदकाहरणं कार्य क्रियते रूपादिमिस्तु वनरागादीति कार्यभेदः । एवमात्मद्रव्येऽपि चैतन्यात्मके सुखदुःखादिषु पर्यायेषु चोह्यम् । कार्यभेदस्तु तत्रैवं बोद्धव्यः-चैतन्येनार्थानुभवः क्रियते, सुखादिमिस्तु पीडानुग्रहादीति । तदेतद्दर्शयति रूपादय इत्यादि । सङ्ख्या संज्ञाविभेदितेति । द्रव्यपर्याययोरिति वक्ष्यमाणं संबध्यते । कार्यानुवृत्तिव्यावृ. त्ती लक्षणार्थविभेदितेति । यथायोगं संबन्धः। कार्यभेदोऽर्थविभेदिता, अनुवृत्तिव्यावृत्तीलक्षणविभेदितेति संबन्धः । द्रव्यपर्याययोरित्यत्र छेदः । एवमित्यादिना हेतोरसिद्धिमुपसंहरति । एवं च कृत्वा द्रव्यमेकान्तेन नाविशिष्टं किन्तु पर्यायरूपभेदेन विशेष प्रतिपद्यते। तेन पर्यायेभ्यो द्रव्यस्यैकान्तेन भेदाभावादित्यसिद्धो हेतुः ॥ ३१३ ॥ ३१४ ॥ ३१५ ॥ स्वभावाभेद इत्यादिना प्रतिविधत्ते ।
खभावाभेद एकत्वं तस्मिन्सति च भिन्नता।
कथंचिदपि दुःसाध्या पर्यायात्मखरूपवत् ॥ ३१६ ॥ यदि हि द्रव्यपर्याययोरभेदोऽप्यङ्गीक्रियते । तदा सर्वात्मनैवाभेदोऽयं भवेत् , भेदश्च तद्विपरीतः कथं भवेत् , न ह्येकस्यैकदा विधिप्रतिषेधौ परस्परविरुद्धौ युक्तौ । तथा कमित्यनेन भेदनिषेधनान्तरीयकः स्वभावाभेद उच्यते, तस्मिंश्च स्वभावाभेदे सति कथं तदानीमेव भेदस्तत्प्रतिषेधात्मा भवेत् । प्रयोगः-यत्राभेदस्तत्र तद्विपरीतो न भेदोऽवकाशं लभते, यथा तेषामेव पर्यायाणां द्रव्यस्य च यत्प्रतिनियतमसाधारणमात्मरूपं तस्य न स्वभावाद्भेदः, अभेदश्च द्रव्यपर्याययोरवस्थित इति विरुद्धोपलब्धेः ॥ ३१६॥