________________
११८
तत्त्वसङ्ग्रहः। दिगम्बरपरिकल्पितात्मप्रतिषेधार्थमाह-जैमिनीया इवेत्यादि ।
जैमिनीया इव प्राहु नाश्चिल्लक्षणं नरम् ।
द्रव्यपर्यायरूपेण व्यावृत्त्यनुगमात्मकम् ॥ ३११॥ जैना इति । दिगम्बरास्त एवं प्राहुः । चिल्लक्षण एवात्मा स च द्रव्यरूपेण सर्वावस्थास्वमिन्नत्वादनुगमात्मकः, पर्यायरूपेण तु प्रत्यवस्थं भिन्नत्वाद्यावृत्त्यात्मकः । एतच प्रत्यक्षत एव सिद्धमात्मनो द्वैरुप्यमिति न प्रमाणान्तरतः प्रसाध्यम् । तथा हि-सुखाद्यवस्थाभेदेऽपि यदवस्थात् सर्वावस्थासु चैतन्यमुपलभ्यते तद्रव्यम् । पर्यायस्तु क्रमभाविनः सुखाद्यवस्थाभेदाः। ते च प्रत्यक्षत एव सिद्धा इति परस्य भावः ॥ ३११ ॥ तत्रापीत्यादिना प्रतिविधत्ते।
तत्राप्यविकृतं द्रव्यं पर्यायैर्यदि सङ्गतम् ।
न विशेषोऽस्ति तस्येति परिणामि न तद्भवेत् ॥ ३१२ ॥ अत्र पक्षद्वयम्-यत्तश्चैतन्यात्मकं द्रव्यं तत्पर्यायैः संबध्यमानं कदाचिदविकृतमत्यक्तपौरस्त्यचैतन्यादिरूपं सत्संबध्यते, यद्वा परित्यक्तपूर्वरूपम् । तत्र यद्यनन्तरः पक्षस्तदा नित्यत्वहानिप्रसङ्गः, अवस्थातुः कस्यचिदप्यभावात् । अथाविकृतमिति प्रथमपक्षस्तदा पूर्वोत्तरयोरवस्थयोर्न विशेषः-अन्यथात्वम्, अस्तीति परिणामि तचैतन्यं न भवेत्-न प्राप्नोति । अन्यथात्वलक्षणत्वात्परिणामस्य । इष्टं च परिणामि । प्रयोगः यत्पूर्वोत्तरावस्थासु न विशिष्यते तत्परिणामि न भवति यथाकाशम् , न विशिष्यते च चैतन्यं सर्वावस्थास्विति व्यापकानुपलब्धेः ॥ ३१२ ॥ देशकालस्वभावानामित्यादिना हेतोः परमतेनासिद्धिमाशङ्कते ।
देशकालखभावानामभेदादेकतोच्यते । सङ्ख्यालक्षणसंज्ञार्थभेदाढ़ेदस्तु वर्ण्यते ॥ ३१३ ॥ रूपादयो घटश्चेति सङ्ख्यासंज्ञाविभेदिता। कार्यानुवृत्तिव्यावृत्ती लक्षणार्थविभेदिता ॥ ३१४ ॥ द्रव्यपर्याययोरेवं नैकान्तेनाविशेषवत् ।
द्रव्यं पर्यायरूपेण विशेषं याति चे(ख)यम् ॥ ३१५ ॥ तथा हि-यद्येकान्तेन पर्यायेभ्यो द्रव्यं व्यतिरेकि भवेत्तदा स्यात्तस्या विशेषः,