________________
पविकासमेतः। पारायं चक्षुरादीनां यत्पुनः प्रतिपाद्यते । शय्याशनादिवत्तेन संघातत्वेन हेतुना ॥ ३०७ ॥ आधेयातिशयार्थत्वं यद्येषामुपपाद्यते । इष्टसिद्धिर्यदिष्टास्तेऽस्माभिर्ज्ञानोपकारिणः ॥ ३०८ ॥ अविकार्युपकारिखसाधने साध्यशून्यता। दृष्टान्तस्य चलस्यैव युक्तास्तेऽप्युपकारिणः ॥ ३०९ ॥ सामान्येन तु पारायं यद्येषां संप्रसाध्यते । तथाऽपि साधनं व्यर्थ सिद्धाश्चित्तोपयोगिनः ॥ ३१०॥
इति कापिलकल्पितात्मपरीक्षा । आधेयातिशयो वा परोऽभिप्रेतो भवेत् , यद्वाऽनाधेयातिशयरूपत्वादविकारी, अथ वा सामान्येन पारार्थ्यमात्रमविचारितरमणीयं साध्यत इति त्रयो विकल्पाः । तत्र प्रथमपक्षे सिद्धसाध्यता, यतस्ते चक्षुरादयोऽस्माभिर्विज्ञानोपकारिण इष्टाः । "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते तच्चक्षुर्विज्ञानम् , यावत्कायं प्रतीत्य स्प्रष्टव्यानि यो(चो?)त्पद्यते कायविज्ञान"मिति वचनात् । अथ द्वितीयः पक्षस्तदा विरुद्धता हेतोरित्यादर्शयन्नाह–अविकार्युपकारित्वेत्यादि । अविकारिणो नित्यस्योपकारित्वमविकार्युपकारित्वम् , तस्य चक्षुरादीनां साधने सति दृष्टान्ते साध्यविपर्ययेणैव हेतो
ाप्तत्वाद्विरुद्धता, यतस्ते शयनादयश्चलस्यानित्यस्यैवोपकारिणो युक्ताः, अविकारिण्यतिशयस्याधातुमशक्यत्वात् । अथ सामान्येनाधेयातिशयादिविकल्पमपास्य पाराय॑मानं साध्यत इति तृतीयः पक्षः, तदाऽपि सिद्धसाध्यता, चित्तोपकारित्वेन चक्षुरादीनामिष्टत्वात् । अथ चित्तमपि साध्यधर्मित्वेनाभ्युपगम्यते यथा नैयायिकैरभ्युपगतम् । एवमपि भवतां नेष्टसिद्धिः, चित्तव्यतिरेकेणाऽऽत्मनोऽनिष्टत्वात् । नापि नैयायिकानाममिमतार्थसिद्धिः, परस्परोपकारित्वेन चक्षुरादीनां परोपकारित्वस्येष्टत्वात् । पारावारवदापेक्षिकत्वात्परत्वस्य । चित्तस्य चानेककारणकृतोपकारोपग्रहेणो. त्पत्तेः संघातत्वं कल्पितमस्त्येवेति हेतोरपि ना(न?)सिद्धिः ॥ ३०७ ॥ ३०८ ॥ ॥३०९ ॥ ३१० ॥
इति कापिलकल्पितात्मपरीक्षा।