________________
तत्त्वसङ्ग्रहः। मुच्छेदात्मकं बौद्धस्य प्रसिद्धं न तथाविधं भवतः सायस्य । तयोः परिणामतिरोधानरूपत्वेन भवद्भिरङ्गीकरणात् । यथा च भवतस्तथा न बौद्धस्य सिद्धमियन्यतरासिद्धो हेतुः। न च शब्दमात्रस्य सिद्धौ हेतुसिद्धिः, वस्तुनो हि वस्तुसिद्धर्वस्तुन एव हेतुत्वात् । यथोक्तम्- "तस्यैव व्यभिचारादौ शब्देऽज्यव्यभिचारिणि । दोषवत्साधनं शेयं वस्तुनो वस्तुसिद्धितः” ॥ इति । अथ प्रसङ्गसाधनमितिपक्षस्तथाऽपि साध्यविपर्यये बाधकप्रमाणानुपदर्शनादनैकान्तिकता हेत्वोः । को पत्र प्रतिबन्धो यचैतन्यस्योत्पत्तिमत्त्वनाशित्वाभ्यां न भवितव्यमिति । याऽपीयं कल्पना, "वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्"ति । साऽप्यकल्पनैव । न हि क्षीरं स्वातव्येण वत्सविवृद्धिनिमित्तं प्रवर्त्तते । किं तर्हि ? प्रतिनियतेभ्यः कादाचित्केभ्यः स्वहेतुप्रत्ययेभ्यः समुत्पद्यते। तच्चोत्पन्नं सद्वत्सविवृद्धेनिमित्ततां यातीत्यज्ञमपि प्रवर्तत इति निर्दिश्यते । न चैवं प्रधानस्य प्रवृत्तियुक्ता। तथा हि-नित्यत्वात्तदन्यहेत्वभावाच न तावत्कादाचित्ककारणसंनिधानायत्ता तस्य कादाचित्की शक्तियुक्ता । नापि स्वाभाविकी, सदा संनिहिताविकलकारणत्वेन सर्वस्याभ्युदयनिःश्रेयसलक्षणस्य पुरुषार्थस्य युगपदुत्पत्तिप्रसङ्गात् ।। ३०४॥
अथाऽपि स्याद्भवतु बुद्धिचैतन्ययोरभेदस्तथाऽप्यात्मत्वमस्याप्रतिषिद्धमेवेत्याहचैतन्ये इत्यादि।
चैतन्ये चात्मशब्दस्य निवेशेऽपि न नः क्षतिः। नित्यत्वं तस्य दुःसाध्यमक्ष्यादेः सफलत्वतः ॥ ३०५॥ अक्ष्यांचफलं तु स्याचैतन्यं शाश्वतं यदि ।
न भवेदिन्धनेनार्थों यदि स्याच्छाश्वतोऽनलः ॥ ३०६ ॥ न ह्यात्मशब्दनिवेशनमात्रमस्माभिश्चैतन्ये प्रतिषिध्यते, किं तर्हि ? यस्तत्र नित्यत्वलक्षणः समारोपितो धर्मः स निषिध्यते । कस्मात् ? अक्ष्यालोकमनस्कारादेः साफल्यात् । अन्यथा यदि शाश्वतं नित्यं चैतन्यं स्यात्तदाऽक्ष्यादि विफलमेव स्यात् । तदुत्पत्त्यर्थत्वात्तेषाम् । नित्यस्य चोत्पत्त्यसंभवात् । अत्रैव दृष्टान्तमाह-न भवेदित्यादि । यदि शाश्वतो वहिर्भवेत्तदा नैव जनोऽनलार्थमिन्धनमुपाददीत तस्मान्न नित्यैकरूपं चैतन्यं युक्तम् ॥ ३०५ ॥ ३०६ ॥ __यत्संघातरूपं तत्परार्थ दृष्टमित्यादि । तत्र कोऽसौ परोऽभिप्रेत इति निरूपयमाह-पारार्थ्यमित्यादि ।