________________
पञ्जिकासमेतः ।
अथ पुरुषस्य दिदृक्षादि वेत्ति प्रधानमितीष्यते । तथा च सति भोक्तृत्वमप्यस्य प्रसज्येत । यो हि नाम कर्तुं विजानाति स कथं भोक्तुमपि न जानीयात् । तस्मात्कर्तु जानाति न भोक्तुमित्यतः परं किमयुक्तमस्ति नैव किंचिदित्यर्थः । न हि सूपकारो व्यञ्जनादेः कर्त्ता तद्भोक्तुं न विजानातीति । अत्रेतिशब्दोऽभ्याहायः ॥ ३०० ॥
बुद्धिमत्त्वादित्यादिना परस्योत्तरमाशङ्कते ।
बुद्धिमत्त्वात्प्रधानस्य सर्वमस्याविरोधि चेत् । बुद्धिमत्त्वेन तु प्राप्तं चैतन्यं पुरुषेष्विव ॥ ३०९ ॥ बुद्धिरध्यवसायो हि संवित्संवेदनं तथा । संवित्तिवेतना चेति सर्व चैतन्यवाचकम् ॥ ३०२ ॥ सर्वमिति । दिदृक्षाद्यानुकूल्येन प्रवर्त्तनम् । अस्येति । प्रधानस्य । एतदुक्तं भवतियदि नाम प्रधानं चिद्रूपं न भवति तथाऽपि बुद्ध्याऽध्यवसायलक्षणया युक्तत्वात्पुरुषगतं दिदृक्षादि परिज्ञाय प्रवर्त्तिष्यत इत्यतः सर्वमविरोधीति । अत्रोत्तरमाह - बुद्धिमत्त्वेनेत्यादि । यदि हि प्रधानस्य बुद्धिमत्त्वमङ्गीक्रियते तदाऽस्य पुरुषवञ्चैतन्यवत्त्वप्रसङ्गः । बुद्ध्यादीनां चैतन्यपर्यायत्वात् । तथा हि-यत्प्रकाशात्मतया स्वसंविदितरूपं परनिरपेक्षमेव प्रकाशते तचैतन्यमुच्यते, तत्त्वं बुद्धेरप्यस्तीति किमिति सा चिद्रूपा न भवेत् । न चापि बुद्धिव्यतिरेकेणापरं चिद्रूपमुपलक्षयामः । येन तद्व्यतिरिक्तस्य पुरुषस्य सिद्धिर्भवेत् ॥ ३०२ ॥ ३०२ ॥
११५
अत्र परश्चिद्रूपाद्बुद्धेर्भेदप्रसाधनायाह - अचेतनात्मिका बुद्धिरित्यादि । अचेतनात्मिका बुद्धिः शब्दगन्धरसादिवत् । उत्पत्तिमत्त्वनाशित्वहेतुभ्यामिति चेन्मतम् ॥ ३०३ ॥
प्रयोगः —— यद्यदुत्पत्तिमत्त्वनाशित्वादिधर्मयोगि, तत्तदचेतनम्, यथा रसादयः, तथा च बुद्धिरिति स्वभावहेतुः ॥ ३०३ ॥
नैतावित्यादिना प्रतिविधत्ते ।
नैतौ हेतू द्वयोः सिद्धौ खतको साधने मते ।
न विपर्ययबाधाऽस्ति प्रसङ्गोऽप्यभिधित्सिते ॥ ३०४ ॥ कदाचिदिदं स्वातच्येण साधनं स्यात्प्रसङ्गसाधनं वा । यदि स्वातत्र्येण तदाऽन्यतरासिद्धो हेतुः । तथा हि— यथाविधमुत्पत्तिमत्त्वमंपूर्वोत्पादलक्षणं नाशित्वं वाऽत्यन्तस