________________
तत्त्वसङ्ग्रहः ।
स्यान्मतमित्यादिना परमतेनान्यथा भोक्तृत्वमाशङ्कते । स्वान्मतं विषयाकारा बुद्धिरादौ विवर्त्तते । तया व्यवसितं चार्थ पुरुषः प्रतिपद्यते ॥ २९६ ॥ प्रतिबिम्बोदयद्वारा चैवमस्योपभोक्तृता ।
न जहाति स्वरूपं तु पुरुषोऽयं कदाचन ॥ २९७ ॥ न हि विकारापत्त्या भोक्तृत्वमस्येष्टम्, किं तर्हि ? बुद्ध्यवसितस्यार्थस्य प्रतिबिम्बोदयन्यायेन । तथा हि — बुद्धिदर्पणारूढमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंसि संक्रामति तदेवास्य भोक्तृत्वम्, न तु विकारापत्तिः । न च प्रतिबिम्बमात्रसंक्रान्तावपि पुरुषः स्वरूपं जहाति, दर्पणवत्तदवस्थत्वात् । अतो यदभोवस्थानिर्विशिष्टं (तदभोक्तृ,) इत्यत्र प्रयोगेऽनैकान्तिकता हेतोः ॥ २९६ ॥ २९७ ॥
११४
उच्यत इत्यादिना प्रतिविधत्ते ।
उच्यते प्रतिबिम्बस्य तादात्म्येन समुद्भवे । तदेवोदययोगित्वं विभेदे तु न भोक्तृता ॥ २९८ ॥ यत्तद्बुद्धिदर्पणारूढमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंसि संक्रामतीतीष्यते, तद्यदि पुरुषादव्यतिरिक्तम्, तदा तदेवानन्तरोक्तमुदयव्यययोगित्वं प्रसज्यते । उदयव्यययोगिप्रतिबिम्बरूपवत्तद्व्यतिरेकात् । अथ व्यतिरिक्तमिति पक्षस्तदा भोक्तृता न प्राप्नोति, अभोकवस्थातो विशेषस्य कस्यचिदभावात् । न चाप्यर्थप्रतिबिम्बेन सह पुंसः संबन्धाद्भोक्तृत्वं युक्तम्, परस्परमनुपकारकयोः संबन्धासिद्धेः ॥ २९८ ॥ दिदृक्षायानुकूल्येन प्रधानं संप्रवर्त्तते ।
विचित्ररचनाभेदे कथं वाऽचेतनात्मकम् ॥ २९९ ॥
किं च यदि प्रधानं पुरुषस्य दिदृक्षादि जानीयात्, तदानुकूल्येन तस्य पुरुषस्यार्थं प्रति प्रवृत्तिर्युक्ता यावता जडरूपत्वात्सत्यपि चेतनावता संबन्धे पङ्वन्धवत् प्रवृत्तिर्न युक्ता । तथा हि-अन्धो यदि नाम मार्ग नोपलभते, तथाऽप्यसौ पङ्गोविवक्षां चेतयत्येव तस्य चेतनावत्त्वात् । न चैवं प्रधानं पुरुषस्य दिदृक्षादि वेत्ति, तस्याचेतनात्मकत्वेन जडरूपत्वात् । न चापि तयोः परस्परमनुपकारिणोः पवन्धवत्संबन्धोऽस्ति ॥ २९९ ॥
ng नाम प्रजानाति प्रधानं व्यञ्जनादिकम् । भोक्तुं च न विजानाति किमयुक्तमतः परम् ॥ ३०० ॥
"