________________
पलिकासमेतः। यद्यपि पुरुषः कर्मणां कर्त्ता न भवति, तथाऽपि प्रकृतिरस्य यथाऽभिलषितमर्थमुपनयति, तमसौ भुत इत्यदोषः । ननु प्रकृतिरचेतना सती कथं शुभादिकर्मणां की भवति येनासौ यथाऽभिमतं कर्मफलं पुरुषस्य सम्पादयतीत्याह-पनवन्धवद्धीत्यादि । यथा किलान्धस्य चक्षुष्मत्पुरुषसंबन्धादर्थेषु प्रवृत्तिर्भवति, तथा महदादिकं लिङ्ग चेतनपुरुषसंपर्काश्चतनावदिव धर्मादिषु कार्येष्वध्यवसायं करोतीत्यदोषः । तथा चोक्तम्- "पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । पम्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः” इति ॥ २९२ ॥ यद्येवमित्यादिना प्रतिविधत्ते ।
यद्येवमिष्टवाञ्छायां सत्यामपि न सिद्धयति ।
किमिति प्रकृति व किश्चिदन्यदपेक्षते ॥ २९३ ॥ यदि हि प्रकृतिरकृतस्यापि कर्मणः फलमभिलषितमुपनयतीति स्यात्तदा सर्वदैवे. ष्टवाञ्छायां सर्वस्य पुंसोऽमिलषितोऽर्थः किमिति न सिद्ध्येत् । स्यान्मतम्-तत्कारणस्य धर्मस्याभावान्न सिद्ध्यतीति, आह-प्रकृति वेत्यादि । प्रकृतेहि धर्मः कार्यम् , स च तदव्यतिरिक्तत्वात्सदैवास्तीति भवेदेवामिमतं फलम् । तथा हिएतदेव सर्व यदुत प्रकृतिपुरुषौ, तौ च सदा सन्निहिताविति । अतो नित्यमेव फलं भवेत् । किं च यद्यमिलषितमर्थ प्रकृतिः प्रयच्छति तदाऽनिष्टं किमिति प्रयच्छेत् , न ह्यनिष्टं कश्चिदमिलषति ॥ २९३ ॥ ___ अपि च । यदि नाम प्रकृतिरस्यार्थमुपनयति, तथाऽपि भोक्तृत्वमस्यायुक्तमविकारित्वादिति दर्शयति-अर्थोपभोगकाले चेत्यादि ।
अर्थोपभोगकाले च यदि नैवास्य विक्रिया। नैव भोक्तृत्वमस्य स्यात्मकृतिश्योपकारिणी ॥ २९४ ॥ विक्रियायाश्च सद्भावे नित्यत्वमवहीयते ।
अन्यथात्वं विकारो हि तादवस्थ्ये च तत्कथम् ॥ २९५ ॥ यदि हि सुखदुःखादिनाऽऽहादपरितापादिरूपां विकृति नोपनीयते तदाऽऽकाशबदभोक्तृत्वमेव स्यात् । प्रकृतिश्चोपकारिणी न स्यादिति संबन्धः। अविकृतात्मन्युपकारस्य कर्तुमशक्यत्वात् । अथ विकारित्वमस्याभ्युपगम्यते, तदा नित्यत्वहानिप्रसनः । यतोऽतादवस्थ्यमेवानित्यतां ब्रूमः। तच्च विकारित्वे सत्यस्तीति कथमस्य नित्यता सात् । वादवस्थ्यरूपत्वानित्यत्वस्य ॥ २९४ ॥ २९५ ॥