________________
११३
तत्त्वसट्रहः।
अभ्युपगमविरोधं च दर्शयन्नाह-एकरूपेत्यादि ।
एकरूपे च चैतन्ये सर्वकालमवस्थिते ।
नानाविधार्थभोक्तृत्वं कथं नामोपपद्यते ॥ २८८ ॥ एकरूपश्चात्मा, अथ च नानाविधस्यार्थस्य भोक्तेति, परस्परविरुद्धम् । अभोकवस्थानिर्विशिष्टत्वात् ॥ २८८ ॥ दिदृक्षादियोगादविरोध इति चेदाह-नेत्यादि ।
न दिदृक्षादयो भिन्नास्तस्य भोगनिबन्धनम् ।
भवन्ति हि तथा भावे पुमानुत्पत्तिमान्भवेत् ॥ २८९॥ यदि रूपादिषु दिदृक्षाशुश्रूषादयस्तस्य परस्परतो मिन्ना भोगनिबन्धनत्वेनोपकल्पितास्तेऽप्यस्यात्मनो न भवन्ति न जायन्ते । यदि हि जायेरंस्तदा, तथाभेदेन, भावे-जातौ सत्याम् , पुमानुत्पत्तिमान्भवेत् । दिदृक्षादिवत्तव्यतिरेकात् ।। २८९ ॥ एतदेव व्यक्तीकुर्वन्नाह-चैतन्यव्यतिरिक्तं हीत्यादि ।
चैतन्यव्यतिरिक्तं हि न दिदृक्षादि विद्यते ।
तस्योदयव्ययावेशे दुर्वारः पुरुषेऽप्यसौ ॥ २९॥ व्यतिरेके हि तस्य त इति संबन्धानुपपत्तिः । उपकारस्य संबन्धनिबन्धनस्याभावात् । असाविति । उदयव्ययसमावेशः । प्रयोगः यस्य सद्भावव्यवस्थानिबन्धनं नास्ति, नासौ प्रेक्षावता तद्भावेन व्यवस्थाप्यः, यथाऽऽकाशं मूर्त्तत्वेन । नास्ति च भोक्तृव्यवस्थानिबन्धनं पुरुषादिक्षादीति कारणानुपलब्धेः । न चायमसिद्धो हेतुरिति प्रतिपादितम् ॥ २९० ॥ इतश्च कर्तृत्वाभावाद्भोक्तृत्वमपि तस्य न युक्तमिति दर्शयति-शुभाशुभं चेत्यादि ।
शुभाशुभं च कर्मास्ति नैव चेदात्मना कृतम् ।
तदेष भोगभेदोऽस्य कुतः समुपजायते ॥ २९१ ॥ न ह्यकृतस्य कर्मणः कश्चित्फलमुपभुङ्क्ते, अकृताभ्यागमादिदोषप्रसङ्गात् ॥२९१॥ अन परस्योत्तरमाशङ्कते-अभिलाषानुरूपेणेत्यादि ।
अभिलाषानुरूपेण प्रकृतिश्चेत्प्रयच्छति । पङ्ग्वन्धवद्धि संबन्धस्तयोरेष व्यवस्थितः ॥ २९२ ॥