________________
पविकासमेतः।
१११ ताया एकबुद्धेरेकसन्तानसंबद्धज्ञात्रहंप्रत्ययत्वस्य एकविषयत्वस्य चासिद्धत्वात् । अतो धर्मद्वयासिद्धिमुखेनास्याप्यसिद्धत्वमुक्तम् । यथायोगमुदाहृता इति । उदाहृताःपूर्वमुपन्यस्ता ये हेतवः, यथायोगम्-यथासंभवम् । आश्रयासिद्ध इति । तथा हि-प्रथमद्वितीययोः प्रयोगयोर्ये हेतवस्त आश्रयासिद्धाः, अहंप्रत्ययग्राह्यस्य कस्यचिदपि धर्मिणो ज्ञातुरसिद्धत्वात् । तृतीये तु प्रयोगे नाश्रयासिद्धिः। प्रत्ययानां धर्मिणां सिद्धत्वात् । किन्तु तेषामेकसन्तानसंबद्धज्ञातृविशेषणमसिद्धम् । निरालम्ब. नत्वस्य प्रसिद्धत्वात् । अतो यथायोगमित्युक्तम् ॥ २८२ ॥ २८३ ॥ २८४ ॥
इति मीमांसकपरिकल्पितात्मपरीक्षा। सांप्रतं सांख्यपरिकल्पितालनिराकरणार्थमाह-चैतन्यमित्यादि ।
चैतन्यमन्ये मन्यन्ते भिन्नं बुद्धिखरूपतः। आत्मनश्च निजं रूपं चैतन्यं कल्पयन्ति ते ॥ २८५ ।। प्रधानेनोपनीतं च फलं भुते स केवलम् ।
कर्तृत्वं नैव तस्यास्ति प्रकृतेरेव तन्मतम् ॥ २८६ ॥ अन्य इति । सांख्याः । ते हि बुद्धिव्यतिरिक्तं चैतन्यमात्मनो निजं रूपं कल्पयन्ति । यतो बुद्धिः प्रधानस्वभावा, चैतन्यं तु पुरुषस्यैव स्वरूपमिति तेषां समयः । स च पुरुषः शुभाशुभकर्मफलस्य प्रधानोपनीतस्य भोक्ता, न तु कर्मणां कर्ता, प्रकृतेरेवाशेषजगत्परिणतिरूपायाः कर्तृत्वस्येष्टत्वात् । अत्र च प्रमाणयन्ति यत्संघातरूपं वस्तु तत्परार्थ दृष्टम् , तद्यथा शयनादि, संघातरूपाश्च चक्षुरादय इति स्वभावहेतुः । यचासौ परः स सामर्थ्यादात्मेति सिद्धम् । इति परस्य भावः ॥ २८५ ॥ ॥ २८६॥ तत्रापीत्यादिना प्रतिज्ञार्थ तावडूषयति ।
तत्रापि रूपशब्दादिचेतसां वेद्यते कथम् । - सुव्यक्तं भेदवद्रूपमेका चेचेतनेष्यते ॥ २८७ ॥
तथा हि-चैतन्यं पुरुषस्य निजं रूपमिति ब्रुवता चैतन्यं नित्यैकरूपमिति प्रतिज्ञातं भवति, नित्यैकरूपात्पुरुषात्तस्याव्यतिरिक्तत्वात् । एतच्च प्रत्यक्षविरुद्धम् , यतो रूपशब्दादिचेतसो सुव्यक्तम्-फुटतरमेव, खसंविदा, भेदवद्रूपम्-भिन्मस्वभावः, वेद्यते । तबैकत्वे सति चेतनाया नोपपद्यते ॥ २८७ ॥