________________
तत्त्वसम्रहः। तनाहंप्रत्ययो भ्रान्तिरिष्टश्चेवायवर्जनात् । वासना हि ज्ञातृविषयां प्रत्यभिज्ञां कर्तुमर्हति । न पुनरतस्मिन्-अज्ञातरि, सः-शाता, इति प्रज्ञाम्-ज्ञानं वासना कर्तुमर्हतीति संबन्धः। कस्मात् ? न पसौ भ्रान्तिकारणम् , अपि तु यथाऽनुभूतार्थविषयमेवासौ ज्ञानं जनयति न भ्रान्तमित्यर्थः। तस्मादयमहकारो वासनात उत्पद्यमानत्वात् बाधकप्रमाणाभावाच न भ्रान्तो युक्त इति । चेच्छब्दो भिन्नक्रमो बाधवर्जनादित्यस्यानन्तरं द्रष्टव्यः ॥ २८० ॥ = ॥ नेत्यादिना प्रतिविधत्ते।
नानन्तरोक्तया युत्तया तस्य बाघोपदर्शनात् ॥ २८१ ॥ अनन्तरोक्ता युक्तिर्नित्यालम्बनपक्षे वित्यादिः ॥ २८१ ॥
यञ्चोक्तम्-न वासना भ्रान्तिकारणमिति तदनैकान्तिकमिति दर्शयन्नाहईश्वरादिष्वित्यादि ।
ईश्वरादिषु भक्तानां तडेतुत्वादिविभ्रमाः। . वासनामात्रभावाच जायन्ते विविधाः कथम् ॥ २८२ ॥ निरालम्बनता चैवमहङ्कारे यदा स्थिता। तन्नाहंप्रत्ययमाथे ज्ञाता कश्चन विद्यते ॥२८३ ॥ ततः सर्वप्रमाणेषु न दृष्टान्तोऽस्ति सिद्धिभाक् । हेतवश्वाश्रयासिद्धा यथायोगमुदाहृताः ॥ २८४ ॥
मीमांसपरिकल्पितात्मपरीक्षा । यदि हि वासना भ्रान्तिकारणं न भवेत्तदानीमीश्वरः सर्वोत्पत्तिमतां हेतुः सज्ञो नित्यबुद्धिसमाश्रय इत्यादयो विभ्रमाः कथमिव वासनामात्रसंभवादुद्भवेयुः । तथा हि कुमारिलेनापीश्वरादिर्जगतः कर्ता प्रतिषिद्ध एव । वासनामात्रभावाचेति मात्रग्रहणं तथाभूतालम्बनार्थव्यवच्छेदार्थम् । तस्मादहङ्कारस्य निरालम्बनत्वान्न त. द्रायो ज्ञाता कश्चित्प्रसिद्धोऽस्तीति न तस्मादात्मा सिध्यतीति । यच व्यतीताहंकृतिप्राय इत्यादिनित्यसाधनमुक्तम् , तत्राह-तदित्यादि । कश्चनेति। नित्योऽनित्यो वा ज्ञाता दृष्टान्तधर्मी नास्तीयसिद्धो दृष्टान्तः । तथा हि-प्रथमद्वितीययोः प्रयोगयोईर्म्यसिद्धिदृष्टान्तदोषः, इदानींतनस्य बस्तनस्य चाहंप्रत्ययगम्यस्य ज्ञातुः कस्यचिदभावात् । तृतीये तु प्रयोगे एकबुद्धिवदिति दृष्टान्तः साध्यसाधनविकलः । अमिम
0
.