________________
पलिकासमेतः।
१०९ तद्रूपाध्यवसायिनीति । पूर्वोत्तरकालानुयायिज्ञातृरूपाध्यवसायिन्यहकारे। न सर्वत्रेति । सन्तानान्तरे घटादौ ॥ २७६ ॥
तुल्यः पर्यनुयोगोऽयमन्यथा पुरुषेऽपि वः।
तच्छक्तिभेदसद्भावात्सर्वमेव निराकुलम् ।। २७७ ॥ किं चालालम्बनत्वेऽप्यहङ्कारस्य, तुल्यः पर्यनुयोगः किमित्यात्मान्तरेऽपि न प्रवर्तत इति । शक्तिप्रतिनियमान्वमिति चेत्, यद्येवमस्माकमपि शक्तिनियमात्कचिदेवाध्यात्मिके वस्तुनि प्रवर्त्तते, न सर्वत्रेति व्यवस्थानं सर्वमेव निराकुलम् ॥ २७७ ।।
स्यादेतत्-भवत्वे(त)व्यवस्थानम्, किन्तु निरालम्बनत्वमस्य कथं सिद्धमित्याह-नित्येत्यादि ।
नित्यालम्बनपक्षे तु सर्वाहतयस्ततः। सकृदेव प्रसूयेरन शक्तहेतुव्यवस्थितेः ॥ २७८ ॥ अनित्यालम्बनत्वेऽपि स्पष्टाभाः स्युस्ततः परे ।
आलम्बनार्थसद्भावं व्यर्थ पर्यनुयुञ्जते ॥ २७९॥ तथा ह्यस्यालम्बनं भवन्नित्यं वा भवेदनित्यं वा। यदि नित्यम् , तदा सर्वा अहकृतयः-अहङ्कारा युगपद्भवेयुरविकलकारणत्वात् । न ह्यकारणमालम्बनं युक्तमतिप्रसङ्गात् । न चापि शक्तस्य कारणस्य सहकारिकारणापेक्षा भवतीत्यसकृञ्चर्वितमेतत् । न चैक एवायमहङ्कार इति शक्यं वक्तुम् , कादाचित्कतयाऽनेकत्वसिद्धेः । तथा हिगाढवापमदमूर्छासु नाहङ्कारः संवेद्यते, पुनरन्यदा च संवेद्यत इति सिद्धमस्य सर्वदाऽनुपलम्भात्कादाचित्कत्वम् । कादाचित्कत्वाच्चानेकत्वमपि सिद्धमिति सर्वा अहङ्कृतयस्तावमात्रभाविन्यो युगपत्प्रसूयेरन् । अथानित्यमालम्बनमिति पक्षः, तदा चक्षुरादिविज्ञानवत्स्फुटतरप्रतिभासाः सर्वा अहंकृतयः प्रसज्येरन् । साक्षाद्वस्तुस्खलक्षणप्राहित्वात् । ततः तस्मात् , परे तीथिकाः कुमारिलप्रभृतयो व्यर्थमेवास्यालम्बनं पर्यनुयुजते । तस्याज्ञानलक्षणः को नु विषयः परिकल्पित इत्यादि ॥ २७८ ॥ २७९ ॥
तत्र यदुक्तमनालम्बन एवायमहङ्कारोऽनादिसत्कायदृष्टिवासनाबलाद्धान्तः प्रवर्तत इति । अत्र कुमारिलेनोक्तं दूषणमाशङ्कते-ज्ञातरीत्यादि ।
ज्ञातरि प्रत्यभिज्ञानं वासना कर्तुमर्हति । नातमिन्स इति प्रज्ञां न बसौ भ्रान्तिकारणम् ॥ २८० ॥