________________
१०८
तत्त्वसङ्ग्रहः । "बुद्धिजन्मनि पुंसश्च विकृतिर्यचनियता । अथाविकृतिरात्माख्यः प्रमातेति न युज्यते” इति यदेतदाचार्यदिङ्नागपादैरुक्तं तत्र कुमारिलेनोक्तम्-"नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते । विक्रियामात्रवाचित्वात्तव्युच्छेदोऽस्य तावता" ॥ इति तदत्र निगमनव्याजेन दोषमाह-तदित्यादि।
तन्नित्यशब्दवाच्यत्वं नात्मनो विनिवार्यते ।
खरूपविक्रियावत्त्वायुच्छेदस्तस्य विद्यते ॥ २७३ ॥ तत्-तस्मात् , नित्यशब्दवाच्यत्वं न वार्यतेऽस्मामिः, खोपादानपुरस्सरस्य प्रतिक्षणध्वंसिनश्चैतन्यस्याऽऽसंसारमविच्छेदात् । किन्तु स्वरूपस्य-वभावस्य, विक्रियावत्वात्-नियमेन पूर्वस्वभावपरित्यागात्, स्वभावान्तरप्रादुर्भावश्चेति, व्युच्छेदः विनाशोऽस्य स्फुटतरमेवाऽऽसज्यते ॥ २७३ ॥
यश्चापि सर्पादिदृष्टान्त उपात्तः स नित्यैकरूपो न सिध्यतीति दर्शयन्नाहसोऽपीत्यादि।
सोऽपि क्षणभङ्गित्वात्कौटिल्यादीन्प्रपद्यते। .
स्थिररूपे तु पुंसीव नावस्थान्तरसङ्गतिः ॥ २७४ ॥ यथैव हि पुंसि स्थिरैकरूपत्वादवस्थान्तरसंभवो न युक्तस्तथा सर्पस्यापि । यदाऽनुक्षणभङ्गिताऽस्य भवेत्तदा युक्तोऽवस्थान्तरसंभवः, स्वभावान्तरोदयलक्षणत्वादवस्थान्तरप्रादुर्भावस्य ।। २७४ ॥ __यञ्चोक्तमहं वेग्रीत्यहम्बुद्धि तारं प्रतिपद्यत इति तदसिद्धमिति दर्शयन्नाहनिरालम्बन एवायमित्यादि।
. निरालम्बन एवायमहङ्कारः प्रवर्तते । - अनादिसत्त्वग्वीजप्रभावात्कचिदेव हि ॥ २७५ ॥ न ह्यस्याहकारस्य परमार्थतः किंचिदालम्बनमस्ति येनास्य विषयो ज्ञाता स्यात् । यद्येवं किमस्योत्पत्तेर्निबन्धनमित्याह-अनादीत्यादि । सत्त्वहक्-सत्कायदृष्टिः, तस्या बीजम्-वासनाशक्तिरित्यर्थः । अनादि च तत्सत्त्वदृग्वीजं चेति विग्रहः । तस्य प्रभावः-आधिपत्यम् । क्वचिदेवेति। अध्यात्मनियत एव षडायतने ॥२७॥ अथ सर्वत्र कस्मान प्रवर्तत इत्याह-केचिदेव हीत्यादि ।
केचिदेव हि संस्कारास्तद्रूपाध्यवसायिनि । अवेत्यं (आधिपत्यं?) प्रपद्यन्ते तन्न सर्वत्र वर्तते ॥ २७६ ॥