________________
पलिकासमेतः। जोऽभ्युपगम्यते, तदा भेदप्रसङ्गः, यथा पुंसां बहूनां परस्परं प्रतिवं नियतेन-प्रत्यात्मनियतेन स्वभावेन परस्परतो भेदः । एतावन्मात्रनिबन्धनत्वाखूदग्यवहारस्येति भावः ।
पुंसामपि वस्त्वादिरूपेण परस्परतो भेदो नास्तीत्यतः साध्यविकलतानिवृत्स्यर्थ प्रतिस्वं . नियतेनेत्युक्तम् । प्रत्यात्मनियतं रूपमेषामेकान्तेन भिन्नम् , अन्यथाऽनुभवस्मरणा
दीनां प्रतिनियमाभावाद्यवस्थासङ्करः स्यात् । प्रयोगः-यद्यदेकयोगक्षेमं न भवति न तत्तेन सहाभेदि, यथा पुमांसः परस्परं प्रत्यात्मनियतेन रूपेण भिन्नयोगक्षेमाः । नैकयोगक्षेमाश्च सुखाद्यवस्थाः पुंसा सहेति व्यापकानुपलब्धेः ॥ २६९ ॥ __ यथोक्तम्-न चायमवस्थान्तरोत्पादे पूर्वाऽत्यन्तं विनश्यतीति तत्राह-स्वरूपे. गैवेत्यादि ।
खरूपेणैव लीयन्ते यद्यवस्थाश्च पुंसि वः।
दुःखाचप्यनुभूयत तत्सुखादिसमुद्भवे ॥ २७० ।। अवस्था हि सामान्यात्मनि लीयमानाः स्वरूपेणैव वा लीयेरन् , पररूपेण वा । यद्यायः पक्षः, तदा सुखादिसमुद्भवेऽपि-सुखाद्यवस्थानुभवेऽपि, तहुःखमप्यनुभूयेत उपलब्धिलक्षणप्राप्तत्वात् ।। २७० ॥ अथ पररूपेणेति पक्षः, तत्राह-न चेत्यादि । .
न चान्यरूपसङ्कान्तावन्यसङ्क्रान्ति(सम्भवः)।
तादात्म्येन च सङ्क्रान्तिरित्यात्मोदयवान्भवेत् ॥ २७१ ॥ किं च पुंसि सुखादीनां संक्रान्तिस्तादात्म्येनैवेष्टा । ततश्च दुःखादिवत्तव्यतिरेकादात्मा-पुरुष उदयवान्-उत्पत्तिमान् भवेत् ।। २७१ ॥
यञ्चोक्तम्-'न च कर्तृत्वभोक्तृत्वे पुंसोऽवस्था समाश्रिते” इति तत्राहयदीयादि ।
यदि कर्तृवभोक्तृत्वे नैवावस्थां समाश्रिते।
तदवस्थावतस्तत्वान्न कर्तृत्वादिसंभवः ॥ २७२ ॥ यदि हि पुमांसमेवाश्रितं कर्तृत्वादि स्यात्तदत्यक्तपूर्वरूपस्यात्मनो न संभवेत् । प्रयोगः-योऽपरित्यक्ताकञभोकवस्थः स न करोति न चापि भुते, यथाऽऽकाशम्, अपरित्यक्ताकर्षभोकवस्थश्च सर्वदा पुरुष इति व्यापकविरुद्धोपलब्धिः ।। २७२॥
यादव