________________
१०६
तस्वसङ्ग्रहः। नापि विशेषधर्मस्याप्यत्यन्तसमुच्छेद इति दर्शयन्नाहन चेत्यादि ।
न चावस्थान्तरोत्पादे पूर्वाऽत्यन्तं विनश्यति ।
उत्तरानुगुणार्थं तु सामान्यात्मनि लीयते ॥ २६६ ॥ पूर्वेति । सुखाद्यवस्था । यद्येवं सुखाद्यवस्थायामपि दुःखावस्था किं न संवेद्यत इत्याह-उत्तरानुगुणार्थमित्यादि । स्वरूपेणैव हि स्थितायां सुखावस्थायां नोत्तरा दुःखावस्था भवतीत्यतः सा लीयमाना सामान्यालनि सर्वावस्थानुगामिनि चैतन्यद्रव्यत्वादिलक्षणे उत्तरदुःखावस्थोत्पादानुगुणा भवतीति तदर्थ सा तत्र लीयते॥२६६।।
यद्येवमवस्थान्तरवत्सामान्यात्मन्यपि लयोऽवस्थानामयुक्तो विरोधादित्याशयाहस्वरूपेण हीत्यादि।
खरूपेण यवस्थानामन्योन्यस्य विरोधिता।
अविरुद्धस्तु सर्वासु सामान्यात्मा प्रतीयते ॥ २६७॥ खेन सुखादिरूपेणावस्थानां परस्परं विरोधादन्योन्यं लयो न युक्तः, अवस्थाम्तरे तु सामान्यात्मनि लये को विरोधो येनासौ तत्र न भवेत् , तथा ह्यसौ सामान्यात्मा सर्वावस्थास्वविरुद्धोऽनुयायी दृश्यते । सर्वस्यामवस्थायां चैतन्यादीनामुपलम्भात् ॥ २६७ ॥ तत्रेत्यादिना प्रतिविधत्ते।
तत्र नो चेवस्थानामेकान्तेन विभिन्नता।
पुरुषात्तययोत्पादे स्यातामस्यापि तौ तथा ॥२६८॥ यदि हि पुरुषादवस्थानामेकान्तेन भेदो नेष्यते, तदा तद्व्ययोत्पादे-तासामवस्थानां व्ययोत्पादे सति, अस्यापि पुंसस्तौ व्ययोत्पादौ स्याताम् । एकान्तेनेति वचनं कथंचिदप्यव्यतिरेकेऽवस्थावदुदयव्ययप्रसङ्गो दुर्वार इति ज्ञापनार्थम् । प्रयोगः-यो यदव्यतिरिक्तस्तस्य तदुत्पादविनाशे सत्युत्पादविनाशौ भवतः, यथा तेषामेव सुखादीनां स्वरूपस्य । सुखाद्यव्यतिरिक्तस्वभावश्च पुरुष इति स्वभावहेतुः ॥ २६८ ॥ न चायमनैकान्तिको हेतुरित्यादर्शयन्नाह-विरुद्धेत्यादि ।
विरुद्धधर्मसङ्गे तु भेद एकान्तिको भवेत् ।
पुंसामिव खभावेन प्रतिखं नियतेन ते ॥ २६९ ॥ यदि सवस्थानामेवोत्पादव्ययौ न पुरुषस्येत्येवमुत्पादानुत्पादलक्षणो विरुद्धधर्मस