________________
पखिकासमेतः।
१०५ यत्पुनरेकत्वनित्यत्वसाधनार्थ तत्र बोधात्मकत्वेन प्रत्यभिज्ञायते मतिरित्युक्तं तत्राह-अबोधरूपभेदं त्वित्यादि ।
अबोधरूपभेदं तु समानं सर्ववुद्धिषु ।
आरोप्य प्रत्यभिज्ञानं नानात्वेऽपि प्रवर्तते ॥ २६३ ॥ अनैकान्तिकमेतत्प्रत्यभिज्ञानम् , यस्मादबोधरूपेभ्यो घटादिभ्यो भेदम्-व्यावृत्ति समारोप्य प्रत्यभिज्ञानं सर्वबुद्धिषु नानात्वे सत्यपि प्रवर्त्तमानमविरुद्धमेव । अवश्यं चैतद्विज्ञेयम्-यन्नानात्व एव सति विजातीयव्यावृत्तिनिबन्धनकृतमेतत्प्रत्यभिज्ञानम् , न पुनरनानात्व एवेति । तथाहि-निरालम्बनासु समारोपबुद्धिष्वर्थभेदेऽनुपाश्रितेऽप्यप्रत्यभिज्ञानमस्त्येव, न हि तत्रैवं भवति, यैव गजबुद्धिरासीत्सैव तुरङ्गस्यन्दनबुद्धिरिति । प्रसाधितं चानालम्बनत्वमासां बुद्धीनामिति न पुनरुच्यते । तेन यदुतम्-"न चास्त्यप्रत्यभिज्ञानमर्थभेदेऽनुपाश्रिते” इति, तदसिद्धमिति ग्रहीतव्यम् ॥ २६३ ॥
किं च-यदि नित्यैकरूप आत्मेष्यते भवद्भिस्तदा सुखाद्यवस्थाभेदो न प्राप्नोति । अथ सुखाद्यवस्थाभेदोऽभ्युपगम्यते, न तर्हि नित्यैकरूपत्वमस्याभ्युपेतव्यम् । न ोकस्य भेदाभेदौ परस्परविरुद्धौ खभावौ युक्ताविति । एतच्चोद्यपरिहारार्थ यत्कुमारिलेनोक्तं तत्तावहूषयितुमुपक्षिपन्नाह–अवस्थाभेदभेदेनेत्यादि ।
अवस्थाभेदभेदेन शून्योऽप्येकान्ततः स्थिते ।
स्थिरात्मनि ............यत्परैः परिकल्प्यते ॥ २६४ ॥ अवस्थानाम्-सुखादीनाम् , भेदः-नानात्वम् , तेन भेदः-पुरुषस्य नानात्वमेव, तेन शून्य इति । अवस्थानानात्वेऽप्येकखभाव एवेत्यर्थः । अत्र कारणमाहस्थिरात्मनीति । स्थिर:-नित्यः, आत्मा-खभावो यस्यात्मनः, स तथोक्तः । यदि वा अवस्थाभेदाः-अवस्थाविशेषाः सुखादयः, तेभ्य एकान्तेन भेदःपृथग्भावः, तेन शून्यस्तव्यतिरिक्तोऽपीत्यर्थः ॥ २६४ ॥ किं तद्यत्परिकल्प्यत इत्याह-सुखेत्यादि ।
सुखदुःखाचवस्थाश्च गच्छन्नपि नरो मम ।
चैतन्यद्रव्यसत्त्वादिरूपं नैव विमुश्चति ॥ २६५ ॥ गच्छन्नपीति । प्रतिपद्यमानोऽपि । नर इति । आमा । सत्त्वादीत्यादिशब्देन शेयत्वप्रमेयत्वकर्तृत्वभोक्तृत्वादिसामान्यधर्मपरिग्रहः ।। २६५ ॥
१४