________________
तत्त्वसाहः । तथाहि-यदैवामतः स्थितः प्रतिपत्ता जपाकुसुमसंपर्काद्रक्तं स्फटिकमुपलभते, तदैव ये पार्श्वद्वितयावस्थितास्ते सकलमेव स्फटिकोपलं सुशुमुपलभन्ते, न भागशः। ततश्च यदि छायाप्रतिपत्तिस्तस्याभविष्यत्तदा पुरोऽवस्थितपुंस इव पार्श्वद्वितयावस्थितयोरपि प्रतिपत्रो रक्तावभासा प्रतिपत्तिरभविष्यत् । अयं च क्षणिकाक्षणिकपक्षयोरपि साधारणो दोषः ॥ २६०॥
भेदः प्रत्युपधानं चेत्यादिना त्वक्षणिकत्वपक्ष एव दोषमाह । . भेदः प्रत्युपधानं च स्फटिकादेः प्रसज्यते । ... तच्छायाप्रतिपत्तिश्चेत्तस्य विद्येत तात्विकी ॥ २६१ ॥
यदि हि परमार्थतः स्फटिकादेरुपधानोपरागप्रतिपत्तिर्भवेत्तदा यथाक्रमभाविनीनामुपधानमुपधानं छायानां स्वभावभेदान्नैकात्म्यम् । तद्वत्तदात्मनः स्फटिकादेरप्युपधानमुपधानं प्रति—प्रत्युपधानं-भेदः प्रसज्येत । यदि पुनर्धान्तिरियमित्यङ्गीक्रियते तदाऽयमदोष इति ज्ञापनार्थ तात्विकीत्याह ॥ २६१ ॥
तस्माद्धान्तिरियं तेषु विचित्राचिन्त्यशक्तिषु । यतश्चैवं पक्षद्वयेऽपि छायाप्रतिपत्तिर्न युज्यते तस्माद्धान्तिरियमिति स्थितम् । यद्येवं कस्मात्स्फटिकादावेव सा भ्रान्तिर्भवति न कुड्यादावित्याह-विचित्राचिन्त्यशक्तिध्विति । विचित्राः-नानाप्रकाराः, अचिन्त्याः शक्तयो येषां ते तथोक्ताः । न हि भावानां शक्तिप्रतिनियमः पर्यनुयोगमर्हति, खहेतुपरम्पराकृतत्वात्तस्य । भवतामपि चात्रांशे नास्ति विवादः । यथोक्तम्-'अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यताम्" । इति ।
यद्येवं बुद्धावपि तर्हि विषयच्छायाप्रतिपत्ति/न्तिरेवास्तु माभूच्छायाप्रतिपत्तिरित्याह
न बुद्धौ भ्रान्तिभावोऽपि युक्तो भेदवियोगतः ॥ २६२॥ न बुद्धौ भ्रान्तिसद्भावो युक्तः । न केवलं छायाप्रतिपत्तिर्न युक्तेत्यपिशब्दः । कस्मात् ? भेदवियोगतः-भेदाभावात् । स्फटिकादिषु हि भ्रान्तिर्युक्ता, तेभ्यो भिनाया बुद्धेर्धान्तायाः संभवात् , नत्वेवं बुद्धावपरा भ्रान्तिरूपा बुद्धिरस्ति, यस्मादेकैव बुद्धिरिष्टा । न च स्वयमेव विभ्रमरूपा जायते धोरिति युक्तं वक्तुम् , बुद्धनित्यत्वाभ्युपगमात् ॥ २६२ ॥ .